SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ १४८ स्तुतितरङ्गिणी : सप्तमस्तर यः श्रीमजितशत्रुराजविजयादेवीसुतः शाश्वतः, श्रेयः श्रीरजितो जिताऽन्तररिपुः पायाजिनेन्द्रः स वः ॥२॥ यत्कल्याणकपञ्चकेऽपि सकलास्त्रैलोक्यलोकश्चिरं, चक्रे पूर्वमहाप्रमोदस-दने विश्रान्तिमान्त्यन्तिकीम् । यद्भक्त्यासदसञ्चरिष्णु च शुभं भूयाद् प्रभावं भवाभावायाऽभिनमामि तं जिनविभुं श्रीशम्भवं शम्भवम् ॥३॥ चश्चच्चम्पककाञ्चनोच्चयमयैः सर्वाङ्गशृङ्गारितं, शृङ्गारैरिव यस्य गौररुचिभिर्दिक्चक्रबालं बभौ । तं सर्वाऽद्भुतभूतकेलिसदनं मोहदुनिष्क्रन्दनं , वन्दे श्रीअभिनन्दनं जिनपतिं वन्दारुसङ्क्रन्दनम् ॥४॥ निःसीमासमशर्मणि प्रणयिनां जाग्रत्प्रभावप्रभुः, यो निर्मूलनकर्मणे भवतरोरुद्धन्तदन्तावलः । अन्तः शात्रव संयुगे युगभुजः श्रीशां युगीनो जिनं, तं वन्दे सुमतिं सतां कृतिरतिं देवं मनोज्ञाऽऽकृतिम् ॥५॥ निष्षाङ्केपदपद्मसद्मनि सुधात्र्यैलोक्यपद्माऽऽस्पदे, प्रख्याते भुवनस्य मण्डनतया लावण्यलीलामघौ । यस्यामोदनिराजरं सशुभगे भृङ्गन्तिविश्वाङ्गिनः, पद्माऽकं प्रणमामि पद्मरुचिरं पद्मप्रभं तं जिनम् ॥६॥ चञ्चत्पञ्चफणावलीफणिपतेर्यस्योपरि भ्राजते, भूयस्तद्गुणरत्नबन्धुरनिधे रक्षाकरीव प्रभुः । कृप्तेन्द्रायुधकेलिरत्नरुचिभिः शृङ्गारयन्ती दिशः, स्वस्तस्वस्तिकलाञ्छितं नमत तं श्रीमत्सुपाचे जिनम् ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy