SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४४६ स्तुतितरङ्गिणी : सप्तमस्तरङ्ग मणीमिवाऽनन्त ! विलोक्य वृत्तो-दारं भवन्तं जिनमीश्वरं च । अयेत कः काचभिवाऽगुणत्वा-दारम्भवन्तं जिनमीश्वरं च ॥ १४ ॥ अकारि कण्ठे गुणरत्नमाला, धर्मस्य वर्याऽऽयतिना यकेन । लक्ष्मीः सदाऽऽनन्दसुखाय तेन, धर्मस्य वर्याय तिनायकेन ॥१५॥ यस्ते यशस्स्तौति नताऽमरेन्द्र-महीन! शान्ते ! घनसारतारम् । स्वयंवरा तं वरयत्यपाप-महीनशान्ते ! घनसारताऽरम् ॥ १६ ॥ जनस्य दृष्टे त्वयि यत्र नाशं, समक्षमापालनताऽऽपदेनः । गतागते स त्वमपास्य कुन्थो:-ऽसमक्षमापालन तापदे नः ॥ १७ ॥ येनार ! जज्ञे त्वयि विश्वभाना-विलासमाऽऽलम्बनदे ! नतेन। श्रेयस्तरुणां पदमाऽऽपि सश्री-विलासमालं वनदेन तेन ॥ १८ ॥ विश्वत्रयीसौरभकारिकीर्ति-मल्ले ! नमल्लेखपराजिते-न !। भक्तेन भाव्यं त्वयि धूतमोह-मल्ले ! नमल्लेखपराजितेन ॥१९॥ यस्ते वचः सुव्रत ! सम्प्रपेदे, महामुने ! शासितमोहराज !। कर्माऽष्टकं विष्टपनिर्मितोद्यन्महाऽ-मुनेशा!ऽऽसि तमोहरा!ऽज ! ॥२०॥ त्वद्भक्तिभाजा कुमतानि येन, न मेनिरे ना भवतोऽयदस्यसमीर ! स स्यात्किमुपेक्षणीयो, नमे ! निरेना भवतोऽयदस्य ॥२१॥ नेमे ! यया सा रजसेऽपि मेने, न यादवानां परमोदकश्रीः । तमोमयानां मतिरस्तु तेऽस्ता-नया दवानां परमोदकश्रीः ॥२२॥ १ नारायणम् । २ रुद्रम् । ३ शोभनोत्तरकालेन । ४ °ता°-लक्ष्मीम् । ५ आपत्-प्राप । ६ निराकुरु । ७ जलदेन । ८ आसि-क्षिप्तम् । ८शुभफलदस्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy