SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पू. मु. श्री शान्तिविजयजी म. प्रणीता - स्तुतिचतुर्विंशतिका श्रीसंरक्ष्मापसुतस्य भव्य - श्रीभाजनानामभिनन्दनस्य । भक्तिप्रभावेन भवन्ति मुक्ति - श्रीभा जनानामभिनन्दनस्य ॥ ४ ॥ १ ३ ४ यः पावनो हंस इवोत्ततंस, नालीककान्तं वरमङ्गलाऽङ्गम् । तं सिद्धिवध्वाः सुमतिं नमामो, नाऽलीककान्तं वरमङ्गलाऽङ्गम् ||५|| त्वं येन मङ्गल्यरमाऽऽलयेन, पद्मप्रभावं दितवाननेन । दृष्टेन लोकैः सकलं सुतीर्थं, पद्मप्रभाऽवन्दि तवाऽऽनने न ||६|| धन्यः स मान्यो जिन ! कस्य न स्यात्, पृथ्वीप्रतिष्ठात्मजय स्तवेन । स्वभारतीं सारवतीं बभार, पृथ्वीप्रतिष्ठात्मज ! यस्तवेन ! ॥७॥ देहशोभा विजिता गुणेन, चन्द्रप्रभा भासु रराज केन । जीया नतः श्रीजिनचन्द्र ! स त्वं, चन्द्रप्रभाऽऽभासुरराजकेन ||८|| भाव्यं यदाज्ञा विमुखेन खेलन, मुदा रमायामयशो धनेन । तेन त्वया श्रीसुविधे ! सुखी स्या - मुदारमायाऽऽमयशोधनेन | ॥९॥ aarss देहद्युतिडम्बरेण निष्कोपमा नन्दनशीतलस्य । ४४५ ५ तस्यो बलं कः स्तवने न वृत्तं, निष्कोपमाऽऽनन्द न शीतलस्य ॥१०॥ श्रेयांस ! यस्ते नमने स मोदं, मनोऽरमाभोगतमस्ततान | लब्धोदयं चुम्बति सद्गुणाऽऽली, मनोरमाऽभोग ! तमस्तता न ।। ११ ।। यस्ते विधत्ते पदपद्मसेवां, सदाऽरुणश्रीप्रभ ! वासुपूज्य !1 ६ भर्त्ति बिभर्ति नाऽऽस्थां, स दारुणश्रीप्रभवासु पूज्य ! ||१२|| भाव्यं सदा यस्थ नमस्यताऽसु-मता पदाssवर्जितवैभवेन | दद्याः सुविद्या विमलेश ! सत्त्व - मतापदा वर्जित वै भवेन ॥ १३॥ Jain Education International १ प्रमोद विधातुः । २ विभूषयामास । ३ अङ्ग - कारणम् । ४ उपजातिछन्दः । ५ बबन्ध | ६ चित्तस्थैर्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy