________________
४३८
स्तुतितरङ्गिणी : सप्तमस्तर विदितहृच्छयधर्मविधर्मवि, प्रकरपासविधर्म सुधर्मग् । वितर धर्ममुधर्मकधर्मक, प्रकटिताऽर्हतधर्म सुधर्मकृत् ॥१५ । अवितशान्तिपद कुरु नीवृतां, प्रचुरशान्तिकरोकरकर्मभित् । प्रथितशान्तिरसो रसरङ्गजि-ज्जयतु शान्तिजिनो जिननिर्मलः ॥१६॥ भुवि दिवि सतश्शरणार्थिनः, शरणमङ्कमिषादददाददः । अशरणस्य पशोरपि यः प्रभुः, शरणमाश्वहमप्यथ यामितम् ॥१७॥ चरणमारमणीरमणीयपू-रमणशिष्टिररो रतिदा यथा । मम तथा न सुरद्रुगवीलता-सुरमणीरमणीरमणीयता ॥१८॥ अघघटाघटघाटघटाश्रणि-र्घटघटोऽङ्कघटोघटघट्टनः । अघटितानघटिष्ट घनानघाऽ-नघ हरन्तमुमल्लिमुपास्महे ॥१९॥ घनरसोघधनाधनभूघना, ककमठाकमठाकमठाकृति । त्वदुपचारपरा नरपुङ्गवाः, सुविलसन्ति सुराक्षरसम्पदा ॥२०॥ विजय भूत्तम! भूत्तमभूत्तम-विडसितोत्पलचिह्न ! नमे ! न मे। किमपि वाचमृते तव रोचतेऽ-मृतभूजामिव पादजलाऽऽदिकम् ॥२१॥ वृजिनदृग् ! वृजिनाऽपनिनीषया, शिवरमण्युपयामचिकीर्षया। भगवता विनवीनकनी नवा, जगति येन स नेभिरितोऽवतात् । ॥२२॥ प्रतिमया प्रतिमो महमैकया, प्रतिमया प्रथितस्सदनेकधा। तव विभो ! भुवि चन्द्रसुपेटया, सुरभिगन्ध इवाऽऽप्त पदायसा ॥२३॥ स्वसरलोरुविगोपितवीरधा, विजितकर्मकुवीरनृवीर ! हे !। परमवीरनिरस्तड वीर ! मे, घमघवीर कुरूरु शिवश्रियम् ॥ २४ ॥ भगवतामवतामवतो नति, च्यवनजव्रतकेवलमुक्त्यव । स्थदनिनीत्थ कयत्थकमर्थिनां, तनुतपोत्सवशूकजमार्हणाः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org