________________
पू. मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका
४३७
हरिकलङ्क कलङ्ककलाकदा, जितजितारितनूरुह!नो रुह । सभव शम्भव शाम्भवदेव ! मे, भवभयानि निरस्य तु पश्य माम् ॥३॥ प्रवरसंवरसंवर संवर-क्षितिपनन्दनवागभिनन्दन !। सदभिनन्दननन्दननन्दितः, स भवति यती-न ! भवन्तं मे ॥४॥ कुगगहाऽङ्क महामहमङ्गला-तनयमानयमानयमायवन् । असुमते ! सुमते ! सुमते ! मते-रुदयमो वितराऽमलमेघभूः।। ५ ॥ विकचकोकनदाऽमृतदीधिते!, कुकुकुकोकनदामृतदीधिते ! । तव निदेशउवाभरणीकृतः, स लभते भरणाभरणाकरम् ॥६॥ सुरतरूपमपार्श्वसुपार्श्व! ते, फणमणिरमणीयघृणीतते ! । पदकजं वरिवस्यति पश्यति, स्वरपुनर्भवशर्म स शाश्वतम् ॥ ७ ॥ शिववधूययमद्विज!सद्विज, द्विजपते द्विजपद्विजवद्विमुग्। द्विजपतीति कलङ्ककलङ्ककृ-द्विजपतीतिरमाधिपते जयो ॥८॥ मकरकेतुसुरूपविनिर्जितो-न्मकरकेतुमहोमकरस्य ते । गुणमणीमकराऽऽकरशासनं, मयि महं तनुतेऽतनुतेजसा ॥९॥ प्रसमशीतलशीतल! शीतल-क्रमकजं क्रमते कमलाऽऽवलीम्।। विडतिरिक्ततयेव महर्द्धिकः, सुरवरोऽल्पतरर्द्धिकमीशते ॥१०॥ प्रथमविष्णुविवर्णितवर्णविद, प्रथमविष्णुजविष्णुजवर्णवित् । विशदवर्णविवर्णभवादवा, करणवर्णविवर्णितवर्णवित् ॥११॥ वसुरसोद्रुमणी च कविद्रुमा, वसुवसोधवसूदकवस्वमो। सुवसुपूज्यविभो वसुपूज्यजा, स्मरणतस्तव सिद्धिरवाप्यते ॥१२॥ भुवि यदाऽऽननपद्मनदोद्भवा-वचननाकिनदी नरनाकिनः । .. अति पुनाति सनातनसाब्जिनी-रविमलं विमलं महतां गतम् ॥१३॥ स्नपयति स्म सुधाऽशनसंहति-र्यमवितीक्षरसत्कशसंहतिः । नवनवैर्महनैर्बत मन्दते, तमभिनौमि मुनिनमनन्तमा ॥१४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org