________________
४३६
स्तुतितरङ्गिणी : सप्तमस्तर
१
जिनवरा नवरागभरेण के, धवलितं वलितं वृषकर्मणि ।
जगदिदं गदि दम्भहतेश्च नो, विदधिरे दधिरे चरणश्रियम् ||२५|| असमये समयेन हि चक्षुषा, समतया मतया जगदीक्षितम् ।
३
पुरवरेऽरिवरेऽपि सना त्वया, शमयताऽऽमयतापभरान्विभो ! ॥२६॥ निजगदे जगदेकजिनेन है !, समहिता महिता श्रुतदेवता । सकमला कमलाऽक्षि ! निरन्तरं, जनवरं नवरं वितरे - हितम् ॥ २७ ॥ [ अथ प्रशस्तिः ] इत्थंकारमकारि तीर्थपगण: स्तुत्यः स्तुतेर्गोचरः, पद्माम्भोनिधयः स्वतन्त्र कुशलाः स्फूर्जद्यशोलब्धयः । श्री धीरोत्तमसागराऽऽह्नगुरवः तच्छिष्यवर्गाऽणुना, न्यायाम्भोनिधिना पुनः प्रतिरियं नीताऽक्षरन्यासताम् ॥ २८ ॥
पू. मुनिराज श्री शान्तिचन्द्रमहाराज - प्रणीता - यमकबद्धस्तुतिचतुर्विंशतिका
+ १ ( द्रुतविलम्बितवृत्तम् )
जय वृषध्वज ! मजुवृषध्वज !, प्रियवृषध्वज ! साध्वजसाध्वज । ध्वजविकारकरध्वजपाणिजि - ज्जितमध्वज ! युग्मिजनध्वज ! ॥ १ ॥ गजगते! ऽङ्कगज ! प्रमपुङ्गज!, व्यपकलाकदलीकबले गज ! | अजित !भाजितभास्वरभर्मभा - जितमतागपवैव भवादित
॥ २ ॥
१ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिका भवति । २ रोगसहितम् । ४ सदा ।,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org