________________
पू. मु. श्रीन्यायसागरजी म. प्रणीता - स्तुतिचतुर्विंशतिका
२
कपिहिता पिहिताऽऽश्रव ! सद्गुणै - रविहिताऽविहिताऽन्यसुराऽऽवली | सकलधीकलवीरप ! ते स्तभा छ ! मलिना मलिनीकृतभूतला ॥ १७॥ सुहृद-यं हृदयङ्गमदेशनाऽ - मृतरसं तरसङ्ग ! निपीय ते । भविजनो विजनोदितभक्तिभा-गमरतामर ! तापहरा ! ऽगमत् ॥ १८॥
३
विभवदे भवदे निपलक्ष्मणा !ss - गमर सेऽमरसेवित ! मञ्जताम् । तव नतावन ! तारक ! मे मनोऽ-निशमिदं शमि दम्भमदाऽपहे ||१९|
४
४३५
अभिनवोऽभिनवो मुनितीर्थकृत्-हिमकरोऽमकरोदयनिर्गतः । समुदितो मुदितोदितमङ्गिनं, प्रकुरुतां कुरुताऽम्बुहृदन्वहम् ॥ २० ॥ विभवयाभवयाचितविग्रहो, विजयभूर्जयभूर्जितसद्गुणः । असुभृतां सुभृतां श्रियमाऽऽददा - बभयदो भयदोषहृदाऽऽगमः ॥२१॥ मुदमिता दमिताऽरिगण ! त्वया, कविदधे विदधे स्वगिरां गुणैः । त्रिभुवने भुवनेश ! समुद्रजा !s - जुनयशा ! नयशासन ! मेदिनी ||२२|| अविभवैर्विभवैस्त्वनुजीविनः, प्रभुतयाऽद्भुतयाऽकृषत त्वया ।
६
तव समाव ! समा भुजगाऽङ्क ! त-द्वितर मेऽतरमे ! - हितमक्षरम् ||२३| कलौ कलधौत ते!s, रस ! मतौ समतौघ ! रमस्व मे । परमदोऽरमदोष ! मृगाऽधिप-ध्वज ! वरं जवरञ्जितविष्ट ! ॥२४॥
१ मस्तकेनाऽऽच्छादिताः । २ छागाऽङ्क ! । ३ कुम्भाङ्क ! । ४ त्रिकरणस्तुत्यः । ५ मुदिता कृता । ६ सर्वांनवतीति । ७ नास्ति शृङ्गारादि रसो यस्य । ረ अर्त्यथम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org