________________
स्तुतितरङ्गिणी : सप्तमस्तर
समनुतां मनुतां तव शिष्टिकां, समुदितामुदिताऽऽगम ! युक्तिभिः . भुवि जनो विजनोदयदर्शिनी, नवसुधां वसुधाऽङ्गजतीर्थकृत् ! ॥७॥ धवलिमाऽऽवधलिमा दधते तना-वपरुषेऽपरुषेष्टगिरे नमः । समहसे महसेननृजन्मनेऽ-रतिभिदेऽतिभिदेलिमकर्मणे ॥८॥ सुविधिना विधिनाऽवधि कर्मणां, समुदयो मुदऽयोघनताडनैः । प्रवचनवचनेन नृणां कृतो-प्रकृतिना कृतिनाऽऽशु सितत्विषा ॥ ९॥ वसुपते!ऽसुपते!ऽसुमतां सुरै-वितरणे तरणे ! भविबोधने । कृतवशी तव शीतल ! वाक्भरो, वसुतरान् सुतरां कृतवान् जनान् ॥१०॥ समुदिते मुदिते!ऽत्र भवाऽन्तकृत् , शुचिरसं चिरसञ्चितपाप्मनां । जिनमतं नमतं तनुमानसे!, त्वमपि वामपि वाग् ! नम वैष्णवम् ॥११॥ मम तमोमतमोहनिशाभवं, सुवसुपूवसुपूज्यनृपाऽऽत्मभूः! । अरुणभारुणभा!ऽऽग्रहकौशिक-व्रजहितं जहि तन्त्रविदांवर ! ॥ १२॥ तव करोऽवकरोपममन्मथाऽ-पनयने नयनेत्र ! महेशताम् । विमल तामलताप! समागम-चरणदो रणदोषपराङ्गमुखः ॥ १३ ॥ अभयदं भयदम्भनिवारिणोऽ-तिसुयशाः सुयशःसुत ! देशना । सुरवधूरवधूय भवव्यथां, सुनय ! ते नयते स्म शिवं क्रमात् ॥१४॥ शिवसुखं वसुखण्डतनुप्रभ :, पदमितं दमितं नृविसर्जने । सुरमणी-रमणीवरसुव्रता-तनयतां नयतां दधदाऽऽप्तराट् ! ॥१५॥ अपरमा परमार्थवती त्वया, कविहिता विहिता विहिताऽगसम् । वसुमती सुमतीश! समुद्धर, तदचिरादचिराऽऽत्मज ! मां भवात्॥१६॥
१ अङ्गिकुरुताम् । २ हतः। ३ सुवर्णदाने । ४ प्राप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org