________________
पू. मु. श्रीन्यायसागरजी म. प्रणीता-स्तुतिचतुर्विशतिका ____४३३
४३३ [अथ प्रशस्तिः ] इत्थं प्रार्थितमर्थसार्थमनघं यच्छन्त एते चिरं, जीयासुद्देष भादयोजिनवृषाः काव्यैरमीभिः स्तुताः । सौभाग्यादिव सुभ्रवः सरभसं क्रोडे लुठन्ति स्वयं, यद्धयानान्मणिमन्त्रहेमविजयाऽऽनन्दादाऽऽदि सम्पत्तयः ॥ २९ ॥
पू. मुनिराजश्रीन्यायसागरजीमहाराज-प्रणीता-यमकबद्ध
स्तुतिचतुर्विंशतिका
+ १ (द्रुतविलम्बितवृत्तम् ) विभवदो भवदोषमपाहरन् , मघवताऽघवतामपि योऽर्चितः । विनयिनां नयिनां धुरमाऽऽवहन् , शमवतामवतात् ऋषभस्स वः ॥१॥ अजित ! भाजितभास्कर ! साधुभि-विजयतां जयतां दधदाऽऽदृतम् । अविरतं विरतं भृशमंहसो, भविहितं विहितं तव शासनम् ॥ २ ॥ जिन! वहे नवहेममनोहरं, सुहृदिसं हृदि शम्भव ! मूर्त्तिमत् । तव महोऽवमहोमह्रदानना!ऽ-वनमहीनम-हीनचतुष्टयम् ॥३॥ अमलया मलयाचलचन्दन-प्रतिमयाऽतिमया जगद-व्यते । तव गिराऽव गिरावुदितस्तुते-नॅवर ! संवरसम्भव ! मामतः ॥४॥ वसुमती सुमतीश! तमोभरै-रविमला विमला ससृजे क्षणात् । शुभवता भवता पदपङ्क्तभि-मूंदुरवा दुरवापगुणान्विता ॥५॥ धरज! सारज! साधुविबोधनै-रविकलं विकलं विषयादिभिः । स्मरमते रमतेस्म मनागपि, जिन ! मनो ! न मनोज्ञतनोस्तव ॥६।।
१ ज्ञानादि हृत् यः, इ:-कामः तं स्यति । २ अनन्तज्ञानादिचतुष्टयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org