SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४३२ स्तुतितरङ्गिणी : सप्तमस्तराम स सफलां फलिनीदलनीलरुक्, सृजतु मल्लिजिनः कृतिनां स्पृहाम् । नवममाऽऽपदनाप्ययमृद्धिभू-घनरसं न रसं नरसन्ततिः ॥ १९ ॥ स कलहंस इवामलपक्षभाक्, श्रयतु हृत्कमलं मम सुव्रतः । मतिरमोहि न यस्य दमाऽऽदरो-त्सवलयाऽबलया वलयाऽऽढ्यया ॥२० सुरगवीव समीहितसम्पदां, भरमसूत यदीयमुदीक्षितम् । जिन नमे ! ऽस्तु मुदे दृगसौ दित-भ्रममताऽममता मम तावकी॥२१॥ नयतु नेमिजिनः परमां मुदं, स जनमञ्जनमञ्जुरमन्दगीः । निहतवानिह यो युवतिस्मित-स्मयमकायमकाऽयमकारणम् ।। २२ । अनयनैरिव तैः किमुदीक्ष्यते, शिवपथः प्रथितः पृथुविभ्रमैः । उरसि पार्श्व! वचांसि महांसि ते, न निहितानि हितानि हि तात ! यैः ।।२शा सुरसरोजदृशां निवर्गुणा, विदधिरे वदनाऽतिथयस्तव । स जिनवीर! सुखाय जिनम्मराऽ-भिभवलोभबलो भव लोकराट् !॥२४॥ कनककैरवविद्रुमवारिमुग्, मरकतद्युतये नतिरस्तु मे।। भगवते प्रकटीकृतसद्गमाऽऽ-श्रयनयाय नयाऽयनयायिने ॥ २५ ॥ *जयति निर्जरकुञ्जरधोरणी-मुकुटकोटिनिघृष्टपदद्वयी। जिनततिः कुनयैककुशेशयोत्करतमाऽरतमारतमाश्चिरम् ॥२६ ।। सदनरत्नकरैरिव यद्वरैः, सुखमलक्षत वर्मशिवं नरैः । भगवतां कुरुतां स गिराम्भरो, मुमितां दमितां दमिताऽङ्गजाम् ॥२७॥ सुमनसां सुदशां निचयो जिन-प्रवचनैकपयोरुहषट्पदः । स्मर इवैणदृशां मतविग्रहः, शुभवतां भवतां भवतां मनः ॥ २८ ॥ १ न आपत्-न लेभे। २ संयमभूमौ जलम् । ३ दुःखाऽविरतिकारणम् । *प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिका भवति। ४ मैथुनहिंसाऽज्ञानानि यस्यां सा। ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy