________________
पू. मु. श्रीहेमविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका
४३१ अमकराङ्कममन्यत यं जनः, शिवरतेमकराङ्कमपीश्वरम् । सृजतु वः स सुख सुविधिधुत-स्मरमपारमपाऽऽरमपास्तभीः ।।९॥ अजनि या ध्वजिनीव विरोधिना-मभिभवाय नयैरिदैरिव । दिशतु सा तव शीतल! गीः सुखं, घनममानममान! ममाऽक्षयम् ॥१०॥ अनुचरेष्वणुकं गुणधोरणी-मणिमहाकर ! विष्णुनृपात्मज !। प्रकटितोत्तमधर्मपथोल्लसद्विनय ! मानय मा नयमाऽऽश्रय ! ॥११॥ कथमुशन्ति नते सविडम्बना, हरिहरादिविभूतिमनारतम् । जिन ! जयाऽङ्गज ! यैर्जयिनी यशः-खनिरमा निरमानि रमाऽत्र ते॥१२॥ विमलतां विमल नयताजिन!, कतकचूर्णमिवाऽम्बु स हृत्सताम् । स्रकनघा यमभूषयदुच्छ्रिता, भ्रमरवामरवाऽमरवासवैः ॥१३॥ जगति यद्ववसां निचयोऽशुमा-निवतमस्ततिनाशकृत् । हृदि वहे नवहेमरुचिं शम-श्रितमनं तमनन्तमनंहसम् ॥ १४ ॥ यमधिगम्य जनो जडतां जहौ, सुमनसां हितमीशमिव त्विषाम् । हभतु ते जिन! धर्म! वचश्चयः, श्रियममाय ! ममाऽयममा सुखैः ।।१५।। महनिशान्तमशान्तिनिशाऽन्तकृत्सुखकृदस्तु स शान्तिनभोमणिः । यमबुधजन ईप्सितं उल्लसद्-दृगमरागमरागमरातिहम् ॥१६॥ स जिनकुन्थुरपास्त तमास्तमा-पतिरिवामृतसूर्भवतात्सताम् । . यतिततिर्यमनङ्गनिषूदने, हरमुदारमुदाऽरमुदाहरत् ॥१७॥ जलनिधेर्दुहितेव यदीयवाक्, समभवत्पुरुषोत्तमवल्लभा। कुरुत तं विततं ददतं जना !, वशमऽरं शमऽरं शमरञ्जितम् ॥ १८ ॥
१ शर्मसंवलितां कुरुतात् । २ अमरागं-कल्पवृक्षम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org