________________
पू. मु. श्रीमेरुविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका
४२९ भगवता भवभीमतरङ्गिणी-प्रणयिनस्तटमाप्यतिदुस्तरम् । । स मुनिसुव्रत ! सद्बतमङ्गिनां, वितर सातरसारहवारिद ! ॥२०॥ जिनमणि मिरस्तु महामुदे, मतिमतां परिनुनविपत्तमाः । शममहामकराऽऽकरचन्द्रमाः, समहिमाऽमहिमाऽऽपगमार्यमा ॥२|| यदुकुलाऽम्बरभासनभास्करोऽ-जनि शिवानि शिवातनयः सृजन् । नयतु नेमिजिनो जिनसम्पदं, सुजनमञ्जनमञ्जुतनुत्विषिः ॥ २२ ॥ निरलुठत् कमळं दृढतः शठं, जरठकन्दमिवाऽऽशु परश्वधः । पवनभोजनराजिनिषेवितं, धुतमदं तमदम्भमहं श्रये ॥२३ ॥ चरमतीर्थपतिर्जगतां पति-जनयतु त्रिजगद्गुरुतां स नः। सुरगिरौ स्नपितः सुरराशिना, सहरिणा हरिणाऽधिपलाञ्छनः ॥ २४ ॥ *सकलभव्यतमोभरभास्करा, जनचकोरमुदेकनिशाकराः । तनुमतां नमतां ददतां श्रियं, जिनवरा नवरागविदारिणः ॥ २५ ॥ नयवितानमणी रमणीयतां, विदधतं गमभङ्गसमाऽऽकुलम् । भगवतां सकलाङ्गभृतां दया-रसमयं समयं जलघि श्रये ॥ २६ ॥ जिनपदाऽब्जपरागमधुव्रता, कविकुलाऽऽम्रविलासवनप्रिया । शमयतामशिवं शिवकारिणी, श्रुतसुरीतसुरीजनमुख्यता ॥२७ ।।
[अथ प्रशस्तिः ] इति जिना विनुता मुनिमेरुणा, विजयसेनगुरोः क्रमसेविना । विदधतां प्रणतिं दधतां सतां, शिवरमा घरमानवमानिताः ॥ २८ ॥
M
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org