________________
४२८
स्तुतितरङ्गिणी : सप्तमस्तर अटाति तन्निकटात् कटुरन्धता, करटिनां घटनेव करिद्विषः । स्मरति यः सुविधेरभिधां सुधी-वरविधेरविधेर्वधसाधनम् ॥९। दृढरथाऽऽत्मज ! शीतलतीर्थकृत् !, सुकृतिनां सुकृतानि कुरु प्रभो !। मुनिसमाजभुजङ्गभुजाऽन्तरे, घनसमान!समाऽऽनतमानव ! ॥ १० । भवति तस्य सभाऽङ्गणगामिनी, शिवरमा नृपतेरिव वाहिनी । वहति चेतसि विष्णुमहीपते-र्जननकाननकाम्यघनं जिनम् ॥ ११ । विजयतां वसुपूज्यनृपाऽऽत्मभू-रजनि राजविराजिगुणैकभूः । भवदवासमधामपरासने, घनरसो नरसोमसुरैः स्तुतः ॥१२ । तमनुयान्ति कलाः सकलाः कलाः, कुमुदबन्धुमिवाऽमलदीधितिम् । विमलतीर्थपतेर्विमलैर्गुणै-निचितमञ्चितमंह्रिसरोरुहम् ॥१३ नमदमन्दपुरन्दरमौलित:, पतितदामपवित्रितपत्कजम् । वितरतु त्रिजनजनतेप्सितं, हितमनन्तमनन्तजिनः सताम् ॥१४॥ मनुजजन्म विहाय महोदय, समधिगच्छति मुक्त इवाऽऽस्पदम् । कुलिशलक्षण ! यत्र जने त्वया, मुनिहितं निहितं नियमव्रजम् ॥१५॥ जिनपतिस्तमसा ततिशान्तये, स भवताद्भविनां मृगलाञ्छनः । वसुमतितिलकप्रतिमः प्रभू-रुचिरयाऽचिरया सुषुवे सुतः ।। १६ ।। जगति योऽशमशत्रुममीमथत्, प्रमथनाथ इवाऽन्धकमुत्तमम् । दिशतु कुन्थुरकुण्ठिततेजसं, मुदमरन्दमरञ्जितदैवतः ॥ १७ ॥ कनककोकनदप्रतिमद्युति, वदनकान्तिजिताऽमृतदीधितिम् । अतुलमङ्गलकेलिकुलाऽऽलयं, जिनमरं नम रञ्जितविष्टपम् ॥ १८ ॥ प्रथयतु प्रथितां जगतां श्रियं, स जिनमल्लिरमन्दगुणाऽम्बुधिः । मधुरधीरवधीजनकेसरी, जगति दुर्गतिदुर्धरसिन्धुरम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org