________________
पं. श्रीचारित्ररत्नगणीप्रणीता - स्तुतिचतुर्विंशतिका
दैवान्तरैः कथं तेऽस्तु, नन्दाभव ! समानता ।
यत्ते जगत्त्रयी जाता - नन्दाऽभव ! समा नता ॥ १० ॥ मुक्तत्यद्ध नमतां दत्ते, श्रेयांसं कमलाकरम् ।
"
स्वीमि गुणपद्मानां श्रेयांसं कमलाकरम् ॥ ११ ॥ सम्प्राप्तविश्वत्रितयी - जयाङ्गजमदाऽन्तकम् ।
वासुपूज्य ! भजामि त्वां जयाङ्गजमऽदान्तकम् ॥ १२ ॥
>
विमलेश ! श्रितोपान्तं सन्नताऽमरसंसदा ।
स्तुवे तवाऽङ्घ्रियुग्मं श्री - सन्नतामरसं सदा ॥ १३ ॥ नमस्कर्ता न तेऽनन्त - राज ! मानवनायकः ।
४१९
गुणद्रुमाणां महात्म्य - राजमान ! वनाय कः ? ॥ १४ ॥ विश्वातिशायिमाहात्म्यो- दयाय परमाय ते ।
नतोऽस्मि धर्म ! निस्सीम - दयाय परमाऽऽयते ॥ १५ ॥ तव भक्ति विन। स्थानं, सदा भावि भवोदधौ ।
अतस्त्वां सुकृती शान्ते !, सदाऽऽभाविभवो दधौ ॥ १६ ॥ कुन्थुनाथ ! जगन्माथ - श्रीनन्दनजयेश्वर ! |
असीमगुणलक्ष्मीणां, श्रीनन्दन ! जयेश्वर ! ।। १७ ।। चकवांस्तव यः सेवां, परमाऽऽदुसङ्गतः ।
परं पदं स दुष्कर्मो - परमादरसं गतः दुरन्तदुरिताऽम्भोधि - कुम्भोद्भव ! भवाऽऽपदम् ।
हत्वा तत्त्वाप्तयेऽघानां, कुम्भोद्भव ! भवाऽपदम् ॥१९॥ प्रणतस्त्वामहं देव !, सुमित्रभव ! भक्तितः ।
i
तन्मा मोचय विश्वक- सुमित्र ! भवभक्तितः ॥ २० ॥
Jain Education International
For Private & Personal Use Only
॥ १८ ॥
www.jainelibrary.org