________________
४१६
स्तुतितरङ्गिणी : सप्तमस्तरङ्ग
त्रिकालं चरितं चित्ते, स्मरामोऽभयवर्द्धनम् ।
श्रीशीतलजिनेन्द्रस्य, स्मराऽऽमोभयवर्द्धनम् ॥१०॥ भावतो यैः श्रितः सिद्धौ, श्रेयांसः सत्त्वराऽऽशयः ।
ते भवन्ति सदा लब्ध-श्रेयांसः सत्त्वराशयः ।। ११॥ मानवैर्दानवैर्देवैर्वा सुपूज्य ! शिवाऽऽलयः ।
- यैः श्रितस्त्वं भजत्येतान् , वासुपूज्य ! शिवाऽऽलयः ॥ १२॥ यस्त्वं धत्से नृणां देव !, भवाऽब्धौ तारकप्रभाम् ।
विमल! श्रेयसे विभ्रद्, भवाऽब्धौताऽऽरकप्रभाम् ॥१३॥ वन्देऽनन्तजितः पादान्, परमाऽऽनन्ददायिनः ।
कर्मणां मर्मणां लक्ष्म्या, परमान-ऽन्ददायिनः ॥१४॥ श्रीमद्धर्मजिनो जीया-द्वारिताऽऽपदघस्मरः ।
नृणामन्तर्मलाऽपोह-वारि तापदघस्मरः ॥१५ ।। श्रीमच्छान्तिप्रभो ! पाहि, जगतीं दुरितापहः ।
भवद्वेषी नवो यः त्वं, जगतीन्दुरि-तापहः ॥१६ ।। कुन्थुनाथ ! प्रसादात्ते, सुरमानवमानितः ।
__न कः पुमान् भवेद् भोगान् , सुरमाऽनवमानि-तः ।।१७|| अरनाथ ! श्रियाऽपार-परभागमनोहरः।
न केषां प्राप्तसंसार-परभाग ! मनो हरः ॥१८ ।। श्रीमन्मल्लि! जिनाऽधीश !, समतासारमानसः ।
नतस्त्वं येन काः प्रापाऽ-समतासा रमा न स: ॥१९ । श्रये त्वां शरणं दोषाऽ-जित ! पद्मातनूद्भव !।
श्रीसुव्रत ! जगज्जैत्र-जितपद्मातनुद्भव ! ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org