________________
पू. पं. श्रीचारित्रराजगणिप्रणीता-स्तुतिचतुर्विंशतिका
४१५ पू. पंन्यास श्रीचारित्रराजगणिप्रणीता-यमकबद्ध
स्तुतिचतुर्विंशतिका
+ १ ( अनुष्टुप् ) श्रीनाभेयजिन: सोऽव्याद्-रागसागरमन्दरः ।
मुक्तं यं नाऽऽप भवभू-राऽऽगसाऽगरमं दरः ॥१॥ तं नमस्कुर्महे भक्ते-रजितं विनताऽमरम् ।
यः पाति जनतां दोषै-रजितं विनता-ऽमरम् ॥२॥ भवतो भवतः पाया-त्सदाऽऽशं भवनाय कः ।
न यं शिवश्रियः स्तौति, सदा शम्भभवनायकः ॥ ३ ॥ अभिनन्दनतीर्थेश !, भवताऽपाप ! नोदितः।
उत्तार्योऽहं भवाम्भोधे-र्भवतापाऽपनोदितः ॥४॥ रतिस्तवाऽस्तु मे स्वामिन् !, सुमते ! सुमते हिते।
आसन्नश्रेयसा प्राप्त-सुमते ! ऽसुमते-हिते ॥५॥ शिवश्रीदानतो नम्रान्, पद्मप्रभ ! स मोदय।। ... यः स्मरं जितवान् भाऽस्त-पद्मप्रभ ! समोदय ! ॥६॥ श्रीसुपार्श्वजिनाऽधीश !, भवतापाऽपहारिणा ।
सनाथेयं मही जज्ञे, भवता पापहारिणा ॥७॥ स्तुमस्ते पुनतः स्वामिन् !,, महसेननृपाऽन्वयम् ।
पादान्मोदयतो ज्ञान-महसे-न! नृपान् वयम् ॥ ८ ॥ कुरु श्रीसुविधे ! बोधि, मम मोहमहोजयी।
यया संसारशत्रोः स्या-मममोऽहमहो! जयी ॥९॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org