SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ पू. आ. श्रीजिनसुन्दरसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका ४१३ जज्ञे भावितमानसा दृढरतियंत्राऽवतीर्णे तम:श्रीमत्सुव्रतमालया परमया पद्मासवित्री शमे। वृद्धिं तस्य मतं श्रितस्य भवत: कल्याणवल्ली समं, श्रीमत्सुव्रत ! माऽऽलयाऽऽप रमया पद्मासवित्रीश ! मे ॥ २० ॥ राज्ये यस्य मतिबन्ध न रतिं वैराग्यभाजः स्फुरत्भास्वत्कान्तमहेभवाजिकलभेऽरीणां श्रियं दातरि । स त्वं सत्त्वनिधे ! नमे ! वितनु मे स्वामिन् ! स्वधर्मे धृति, भास्वत्कान्तमहे भवाऽऽजिकलभेऽरीणां श्रियं दातरि ॥२१॥ यं तत्त्वन्तमऽमन्दभक्तिरमजद्विज्ञार्च ! लोकत्रयीरक्षामञ्जनविग्रहं शमऽयिता नेमे ! स दामोदरः । कैः स्वज्ञानगुणैषिभिन स भवान् भूयोऽनुभावैः शुभैरक्षामं जनविग्रहं शमयिता नेमे सदाऽऽमोदरः ॥२२ ।। विश्वाऽऽल्हादक! देवपादप इव प्रभ्राजमानः श्रितः, पत्त्राणां सुमनोरमोऽमितिफलैच्छायामऽहीन: श्रियम् । श्रीमत्पार्श्वजिनेश्वर ! त्वमनिशं विश्राणयाऽत्राऽऽभवाऽऽपत्त्राणां सुमनोरमो मितिफलैच्छायामही नः श्रियम् ॥ २३ ॥ श्रीमद्वीर ! मधुव्रतव्रतजुषां पादाम्बुजे त्वं निजे, सश्रीके बलदीपकस्तनुमतां गाङ्गेयकान्ते मम । कारुण्यैकनिधे ! प्रभावजलधे! तत्त्वप्रकाशाऽऽत्मिकां, सश्रीकेवलदीपकस्तनु मतां गां गेयकान्ते !ऽमम! ॥२४॥ १ मथिकानि यानि व्रतानि । २ च्छेत्तरि । ३ अहीनाम् । ४ महान्तम् । ५ वितर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy