________________
४१२
स्तुतितरङ्गिणी : सप्तमस्तरा।
सृष्टाऽभीष्ट ! परीष्टयस्तव हृतारिष्टा न केषां समं, श्रीधर्मप्रभवाऽऽममानघनतामऽर्त्याऽऽसुराऽऽलीनक ! ॥१५॥ विश्वैश्वर्यमऽसाधयो व्रतपदेऽनत्स्रोप्यहो ! यो घनश्रेयःकाञ्चनमन्दराऽऽगम ! हितः सन्मानसाऽऽवाऽऽसनः । स त्वं शान्तिविभो ! भवाऽर्णवतरीं दद्याः स्वभक्तिं जगत्श्रेयः काञ्चन मन्दरागमहितः सन्मानसाऽऽवास ! नः ।। १६॥ यैर्भाव्युभ्युदयैः शुभैविजनैः पादद्वयं ते मुदा, मन्दारप्रसवैरमाहि तमसाऽमान्यं महाऽऽशाऽऽसनम् । तैः श्रीकुन्थुजिनाधिनाथ ! जगतीशत्वं सुखेनाऽऽप्यते, मन्दाऽऽरप्रसवै-रमाहितमऽसामान्यं महाशासनम् ॥१७॥ बिभ्राणे क्षितिमण्डलेश्वरशिरःकोटीषु कोटीरतां, सावद्योपरमे मनो रमय मेऽरामारमाऽऽराजनः । निस्सीमाऽतिशयैकधाम्न्यरजिन ! स्वस्याघ्रिपङ्केरुहेऽसावद्योपरमे मनोरमयमेराऽऽमाऽऽरमाराऽजनः ॥१८॥ संसेव्या बहु राजहंसनिवहै: क्लुप्ताऽनणीयः सुखोत्पादाः पुण्यनया नताऽमर ! सतां धामश्रियामुज्ज्वलाः । निष्पङ्काः कलयन्ति किं परिगताः श्रीमल्लिनेतर्भवत्पादाः पुण्यनया न तामरसतां धामश्रिया मुज्ज्वलाः ॥१९॥
१ धर्मस्य प्रभवो यस्मात् । २ चिक्षेप। ३ लक्ष्मीरक्षा तान् आ-समन्तात् सनोति-ददाति । ४ मुनिपूजितः। ५ अपूजि । ६ अर्थात् पापीना। ७ हे लक्ष्मीद!। ८ °आजति-क्षिपतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org