________________
1. आ. श्रीजिनसुन्दरसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका निस्सङ्गो विनमत्सु वत्सलमना मूर्ना वितन्वन् धियोऽवाचा शीतल ! यासु धावदनयाऽऽध्याऽऽमाऽऽत्मसु ध्यानतः । तत्तत्प्राक्तनकर्मधर्मविधुरानाऽऽसिञ्च नः स्वाश्रितान् , वाचा शीतलया सुधावदऽनयाऽध्यामाऽऽत्मसुध्याऽऽनतः ॥१०॥ दीक्षां यस्य जिघृक्षतो भवजले विज्ञैर्व्यतर्कि श्रियां, दानेनाऽसुमतां सुपर्वफलदः श्रेयां स तीर्थ करः । स्वाऽऽज्ञां यच्छतु मे स मत्सरमदाद्यापत्सु पित्सोस्तमोदानेनाऽऽसु मतां सुपर्वफलदः श्रेयांसतीर्थङ्करः ॥११॥ कुर्वन्ज्ञानगुणक्रियासु भविनां प्रेक्षां फलाऽऽख्यानतो, रक्तां कप्रभवासु पूज्य ! चरणत्राणोपमानक्षमः । जीयास्त्रीणि जगन्ति नेतरवितुं कारुण्यपुण्यार्णवो, रक्ताङ्कप्रभ ! वासुपूज्य ! चरणत्राणोऽपमान ! क्षमः ॥ १२ ॥ यं संसेव्य वशं नयन्ति भविनो दुर्जेयमप्यञ्जसाकान्तारागतमोहरं जितहरिं धीरं स्मरस्वाऽहितम् । तं विद्वन् ! विमलं जिनेशमनिशं चित्तेऽस्तदोषव्रजाऽकान्ताऽऽराऽगतमोह ! रञ्जितहरिं धीरं स्मर स्वा-हितम् ॥ १३ ॥ विश्राण्य प्रणमद्गुणिन् ! अगणितां दीक्षाजिघृक्षाक्षणे, मुक्ताराजिमऽनन्तरायमतनोराऽऽजन्मदानाऽदरः । भव्यव्रातमनन्तदेव ! धनिनं दारिद्रयमुद्राश्चितं, मुक्ताऽऽराजिमऽनन्तरायमतनो ! राजन्मदाऽनादरः ॥१४॥ दीव्यकेवलबोधदर्पणमहसङ्क्रान्तवस्तुप्रथ !, श्रीधर्मप्रभवाऽममाऽनघ ! नताऽमाऽसुराऽऽलीनक !। १ °निर्मल०। २ °निरसनेन। ३ सुखोत्पत्ति याभ्यः तासु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org