________________
पू. आ. श्रीसोमप्रभसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका
श्रीशीतलेश ! क्रियतां सुखं मे, बलक्षमालाभवता नयेन ! | यशश्रिया सौमनसी न जिग्ये, वलक्षमाला भवता न येन ॥ १०॥ श्रेयांसमाssaौमि विनाशयन्तं निरागमोहं तमुदारमायाम् ।
१
2
रेमे न यः कोपदवानलैक - निरागमो हन्त ! मुदा रमायाम् ॥११॥ यत्रोषिता हन्तुमघं तपश्री, सहा यशोभाजि नवा सुपूज्य ! | त्वमीश ! ३ दिश्या मम मुक्तिमार्ग, सहायशोभा जिनवासुपूज्य ! ॥१२॥
४
कल्याणसंपत्तिनिधान ! पुंसा - माऽऽयासहानिक्षम ! याचितानि । विधेहि नः श्रीविमलाऽशुभाना-मायासहानि क्षमया चितानि ||१३|| भक्ति जनोऽनन्तजिनप्रभोर्य-स्ततान नन्ता नतदैवतस्य । रागान्न लक्ष्म्य: मुमुचुः कटाक्षां - स्तताननन्ता न तदैव तस्य प्राप्नोत्यसौ धर्मजिनोत्सवौघा - नरोगतापाय नमो हिताय । तुभ्यं प्रभो ! यः कुरुतेऽङ्गनाभि-र्नरो गताऽपाय ! नमोहिताय ॥ १५ ॥ श्री शान्तिनाथस्य नुमः प्रदत्त - प्रभूतमोदाव घनोदकस्य । क्रमौ महामोह विषापहार - प्रभू तमोदावघनोदकस्य येनेह पूर्वं न भवान् विनेमे, विना "शमेनोनय मेनतस्य जगत्पते ! सम्प्रति कुन्थुनाथ !, विनाशमेनो नय मे नतत्व अरप्रभो ! ध्यानपथं न ये त्वा-मपापदेवीतनयाऽऽनयन्ति । शिवाय ते क्लेशकृतोप्यवश्य मपापदे वीतनया नयन्ति
४०७
Jain Education International
For Private & Personal Use Only
॥१४॥
॥१६॥
॥१८॥
१ ननु आङ् पूर्वान्नौते नु प्रस्थ इति आत्मनेपदं प्राप्नोति कथं आनौमीति । युक्तमेतत् उत्कण्ठापूर्वके संशब्दने नौतेः अयं विधिः न हि सर्वत्र । २ समर्थां । ३ प्रयच्छ । ४ व्यपोहितवैचित्याय । ५ नियमरहितेन ।
॥१७॥
www.jainelibrary.org