________________
स्तुतितरङ्गिणी : सप्तमस्तरका पू. आ. श्रीसोमप्रभसूरीश्वरप्रणीता-यमकबद्ध
स्तुतिचतुर्विंशतिका
___ + १ ( उपजातिवृत्तम् ) जनेन येन क्रियते गम्भीर-नाभे यशोभारहिते नतेन । जिनेन्द्र ! भक्तिस्त्वयि नैव भाव्यं, नाभेय ! शोभारहितेन तेन ॥१॥ मुषाण दु:खं दलितान्तरारेऽ-मरागधीराऽजित ! मेऽघजातम् । स्मराग्निशान्तो तव यस्य वाक्य-मराग! धीराजित! मेघजातम् ॥२॥ नीतः सुखेनैव जिन! स्मरोऽयं, प्रभाविनाशं भवता रणेन। भवोदधेर्भव्यजनश्च पारं, प्रभाविना शम्भव ! तारणेन ॥३॥ श्रिताङ्ग! नन्द्या अभिनन्दन ! त्वं, निष्कोपमानप्रभ ! वानरेण ।.. यं 'नेमुषा मुक्तिवधूरवापि, निष्कोपमानप्रभवा नरेण ॥४॥ प्रयान्ति निर्वाणमनर्थमुक्त-मनाशमत्यायतमानमन्तः । भक्त्या नराः श्रीसुमतिं जिनेश-मनाशमत्या यतमानमन्तः ॥ ५ ॥ जिनेन्द्र ! नेतुं वनिता यतस्त्वा-मनुत्तमाऽऽराव! शमीश ! तेन । सेव्योऽसि पद्मप्रभ ! मुक्तिभाजा-मनुत्तमारा वशमीशते न ॥६॥ चक्रे नमो जिन ! कृताऽखिलाङ्गि-महायते ! सन्नतमस्! तकेन । विलंध्यते भीमभवः सुपार्श्व !, महायते! सन्नतमस्तकेन ॥७॥ जिनेन्द्र ! चन्द्रप्रभ ! सान्द्रकर्म-विलोपकं दर्पमलो भवन्तम् । न जातु शिश्राय समग्रदोषा-विलोऽपकन्दर्पमलोभवन्तम् ॥८॥ तव स्तवं यो विधिना विधत्ते, सुधीरवश्यं सुविधेहि तस्य । मोहेभकण्ठीरव ! मुक्तिसौख्यं, सुधीर वश्यं सुविधे! हितस्य ॥९॥
.
१ नतेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org