SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ . आ. श्रीधर्मघोषसूरीश्वरप्रणीता--स्तुतिचतुर्विंशतिका ४०५ तव यद्भवो भवति शान्तिविभो ! विमुक्त सकलाभिरामरमणी! जनयत्यधीन:१ ॥२८॥ (जयानन्दछन्दः) विना यामन्यत्र कचिदपि न नो तत्त्वलक्ष्म्याः , घनाऽलीका लाभाः कुमतकमलाऽऽभोगदाने । चिरं जीयात्कल्पव्रततिरिव सा द्वादशाङ्गी, घनालीकालाभाः कुमतकमलाभोगदाने ॥२९ ।। (शिखरिणीवृत्तम् ) नता ये वागदेवि ! त्वयि कवयितुं मङ्घ सुतरा __ मलं सद्वृत्तं ते विपदमवदाताङ्गि! कुमते ! । कृतक्षोभं तेषां क्षपयति च पूर्णेन्दुकमलाऽ मलं सद्वृत्तं ते विपदमव दाताङ्गिकुमते ! ॥ ३० ॥ ( शार्दूलविक्रीडितवृत्तम् ) यदेहप्रभवासु भासु लुलुपे त्र्यैलोक्यविश्रम छायामासु रविग्रहेण सुमनोधर्मद्विषां शासनम् । तेषां ये प्रणमन्ति शासनसुरा भान्तः प्रकुर्वन्तु ते, छायाभासुरविग्रहेण सुमनोधर्मद्विषां शासनम् ॥३१॥ (स्रग्धराछन्दः) मिथ्यादृग्गर्वसर्वकषविविधजिनाऽर्चाऽऽदिवर्धिष्णुपुण्यश्रीसद्धे चैत्यकृत्ये सकलसुमनसः सदृश: शान्तये-मे । ३ ओजोवृत्त्या प्रयत्नप्रगुणितविनया जैनयक्षाम्बिकाद्याः, श्रीसङ्घ चैत्य कृत्ये सकलसुमनसः सदृशः शान्तये मे ॥ ३२॥ अधीशः । २ पृथ्वीजनाऽभिमते ! । ३ 'चेतोवृत्या' इति पाठान्तरः। ४ च एत्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy