SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४०४ स्तुतितरङ्गिणी : सप्तमस्तरङ्गन स्मरन्ति ये श्रीजिनराज ! वृत्तं, परं पराभूतसमाधयः ते। स्वर्गाऽपवर्गश्रियमाऽऽश्रयन्ते, परम्पराभूतसमाधयस्ते ॥२२॥ संसाध्य सद्धथानलयेन सिद्धाः, श्रीपुण्डरीकप्रमुखाः सुखानि । ये ते नतानां ददतामलेप-श्रीपुण्डरीकप्रमुखाः सुखानि ॥ २३ ॥ [अथ नन्दिस्तुतयः] चतुर्मुख ! प्रेक्ष्य तवेश ! लक्ष्मी-मशोकभाजामपि चामराणाम् । चित्रीयते नाम न को नताना-मशोकभाजामपि चाऽमराणाम् ॥२४॥ दृष्टा जिनानामिह देशनाक्षणे, भवन्तु दन्तांशुभरावभासिताः । शिवश्रियेऽमुत्र पुनर्मुखेन्दवो, भवं तुदं तां शुभरावभासिताः ॥२५॥ ( वसन्ततिलकावृत्तम् ) श्रीसार्वसम्भव! तव स्तवनात्तमोऽन्ते-हंसप्रकाश! परमाऽऽगम! पङ्कजस्य प्रोल्लासिवासर! भवामि भवस्य भेत्ताऽ-हं सप्रकाश!परमागमपङ्कजस्या२६ ( मालिनीवृत्तम् ). मयि जिनपरिचर्या चारुवर्या विधेयात् , - परमतमतनुश्रीः शारदा भावितन्द्रम् । सितरुचिमपि यस्याः पर्वगर्व विजिग्ये, परमतमतनुश्री: शारदाभावितन्द्रम् ॥२७॥ . (ऋषभवृत्तम् ) अनुगामितां तमभिनेतरमा रमाभिः, सकलाऽभिरा-मरमणी जनयत्यधीनः । १ शोभनानि खानि-मा॑नानि । २. २५-२६-२७ इति प्रान्तपद्यत्रयेण साकं भण्यते तदा एका चतुर्विंशतिका भवति । ३ नेयं नन्दुपयोगीनी इति टीकायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy