________________
आ. श्रीधर्मघोषसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका
-
श्रीपार्श्व! खेदं करहेटकस्याऽ-लङ्कारमाधाम ! विहारयन्तः । चित्ते भवन्तं पथि च प्रभो ! ते, लङ्कारमाधामविहार! यन्तः ॥१२॥ सुधाञ्जनाऽक्ष्णोः त्वयि यस्य जज्ञे, शमीक्षिते सत्यपुरा!ऽव तं सः । यथा शिवं वीर ! समेति पापे, शमीक्षिते सत्यपुराऽवतंसः॥१३॥ तिस्रश्चतुर्विंशतिका जिनानां, सद्भाविभूता वितमा दरेण । मुक्ताः क्रियासुर्जनमाशु नम्र, सद्भा विभूतावितमाऽऽदरेण ॥१४॥ यस्य स्तवे ते जगतां प्रबोधे, सुधीर ! सीमन्धर! धी-रराजः। विदेहभूत्तंस ! शमश्रुतेऽसौ, सुधीरसीमं धरधीरराज! ॥ १५ ॥ कुर्वे स्फुरत्केवलभास्कराय, युगन्धरायाऽस्ततमा नमोऽहम् ।। प्रवासयामास यदंहिपद्म-युग्मं धरायाः ततमानमोहम् ॥ १६ ॥ भवाऽऽपदातॆस्त्वयि यैर्जिनेश !, विश्वप्रभावर्यतया विनेमे। शिवश्रियं बिभ्रति बाहुनाथ !, विश्वप्रभावर्य ! तया विनमे ॥१७॥ सुबाहुनाथ ! त्वमवाऽन्तरारि !, समाक्रमाविष्ट समस्तकामौ । यस्याऽनिशं पूजयति त्रिलोकी, समाक्रमा-विष्टसमस्तकामौ ॥१८॥ जिनौघ! या स्तौति भवद्विहारं, वैदेहकैरावतभारतीयम् ।। धन्या तमःशाखिनि! मुक्तिमार्ग-वैदेहकैरावतभारतीयम् ॥१९॥ वन्दे शतं सप्ततियुग जिनानां, कर्माऽवनीपावनमज्जनानाम् । उत्कृष्टकाले प्रकृतोरुपूजा-कर्माऽऽवनीपाऽवनमज्जनानाम् ॥ २० ॥ प्रसीद देवर्षभ ! वारिषेण !, क्षणेन चन्द्रानन ! वर्धमान !। नन्दीश्वरक्षोणिवतंस ! दिव्य-क्षणेन चन्द्रानन ! वर्धमान! ॥२॥ । करेडातीर्थ । २ साचोरीतीर्थ । ३ अविलम्बेन । ४ °सार्थवाह !।५ देव ! ऋषभ ! ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org