________________
४०२
स्तुतितरङ्गिणी : सप्तमस्तर श्रीमन् ! जिनस्तोम ! भवद्विपारे-पापदाऽष्टापद ! भूषिताय । नमोऽस्तु ते वास्तववर्णमानै-पापदाऽष्टापदभूषिताय ॥३॥ सम्मेततीर्थ जयताचिरेणाऽ-शुभप्रभावाऽरिविनाशनेन । यत्राऽजितायैर्जिनपैः शिवश्री:, शुभप्रभाऽवारि विनाऽशनेन ॥४॥ सोऽनन्तसम्पन्न रमेत तुच्छे, श्रीअर्बुदे सन्तमसं भवोत्थम् । स्यन्तं स्तुते यो जिनराजमाऽऽद्यं, श्रीअर्बुदे सन्तमसम्भवोत्थम् ॥५॥ यत्पूजनं भुवनेषु सार-मियदरापीडक! नाभिजात ! । मत्वेति कस्तत्र यतेत नित्य-मियदराऽऽपीडक ! नाऽभिजात ! ॥६॥ मायाऽऽपगाया जगतीजनस्याऽ-जितप्रभो ! तारण ! दुर्गमायाः। मन्ये कलिस्पर्शभयाद् भवारि-जितप्रभो! तारणदुर्गमाऽऽयाः ॥७॥ अश्वावबोधप्रभवं शकुन्ति-विहारसारं जयति प्रतीतम् । . तीर्थ जिनं यन्मुनिसुव्रतस्य, विहारसा रञ्जयति प्रतीतम् ॥ ८ ॥ यस्ते नमः पार्श्व! तनोति नेत-रलङ्कतस्तम्भनकाय तस्य । नन्तानकः कामद ! विघ्नराशे-रलङ्कृतस्तम्भनका!ऽऽयतस्य ॥९॥ येनैकदाऽपि प्रणतोऽसि पार्श्व!, यशोभया शङ्ख! पुरा बताऽऽर । तस्य क्षयन्ति विघ्नततिवृतस्याऽ-यशोभया शङ्खपुरावतार! ॥ १० ॥ जन्मक्षणे निर्मितमजनोच्चैः, सुपर्वभिः स्वर्णगिरौ सदास्यम् । श्रीपार्श्वनाथं नुतक्लुप्तपूज, सुपर्वभिः स्वर्णगिरौ सदाऽऽस्यम् ॥११॥
१ भूमिकृतनिवासाय । २ ववे । ३ ईडरतीर्थकिरीट ! । ४ कुलीन ! ५ आगतवान् । ६ प्रासादलक्ष्मीः । ७ आर-प्राप। ८ जन्मोत्सवे । ९ श्रीवालपुरे
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org