SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ स्तुतितरङ्गिणी : सप्तमस्तर विजिग्ये लीलया येन, प्रद्युम्नो भवताऽदरः । भविनां भवनाशाय, प्रद्युम्नो भवतादरः ॥२३॥ स स्यान्मल्ले ! नमल्लेखो, मल्लस्य प्रतिमल्लते । क्रमौ मनसि यो मोह-मल्लस्य प्रतिमल्ल ते . ॥२४॥ विधत्ते सर्वदा यस्ते, ससुव्रत ! समुन्नतिम् । .. समास्वादयति स्वामिन् !, स सुव्रत समुन्नतिम् ॥२५|| दृष्ट्वा समवसृत्यन्त-नमीशं चतुराननम् । पश्येत् कोऽजितखं धीमा-नमीशं चतुराननम् ॥ २६ ॥ श्रीनेमिनाथमानौमि, समुद्रविजयाङ्गजम् । हेलानिर्जितसम्प्राप्त-समुद्रविजयाऽङ्गजम् ॥२७॥ शिवार्थी सेवते ते श्री-पार्श्व! नालीककोमलौ । न क्रमावनिश नम्र-पार्श्व ! नाऽलीक ! कोऽमलौ ॥२८॥ वरिवस्यति यः श्रीम-न्ममहावीरं महोदयम् । सोऽश्नुते जितसम्मोह-महावीरं महोदयम् ॥२९॥ श्रीसीमन्धरतीर्थेश, सादरं नुतनिर्जरम् । योऽज्ञान विदधे भस्म-सादरं नुत निर्जरम् ॥३०॥ ये वन्दन्तेऽहतो भार-तैरावतविदेहकान् । प्राप्यते प्रवरोदर्का, तै रा बत ! विदेहकान् ॥ ३१ ॥ सप्ततिशतं जिनाना-मुत्कृष्टपदवर्तिनाम् । वन्दे मनुष्यलोकेऽह-मुत्कृष्टपदवर्तिनाम् ॥३२॥ श्रीमन्नन्दीश्वरद्वीपेड-प्रतिमाः प्रणुताऽच्युताः। द्विपश्चाशतिचैत्येषु, प्रतिमाः प्रणुताऽच्युताः ॥३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy