________________
पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-स्तुतिचतुर्विशतिका
३९९ सद्भक्त्या यः सदा स्तौति, सुपार्श्वमपुनर्भवम् ।
सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्भवम् ॥१२॥ सहर्षा ये समीक्षन्ते, मुखं चन्द्रप्रभाऽङ्ग ! ते ।
विदुः सकलसौख्यानां, मुखं चन्द्रप्रभाङ्ग ! ते ॥ १३ ॥ सदा स्वपादसलीन, सुविधे! सुविधेहि तम् ।
येन ते दर्शनं देव !, सुविधे सुविधेहितम् ॥१४॥ यथा त्वं शीतल ! स्वामिन् !, सोमः सोमो मनोऽहरः ।
भव्यानां न तथा भाति, सोमः सोमो मनोहरः ॥ १५ ॥ तं वृणोति स्वयंभूष्णु-श्रेयांसं बहु मानतः ।
जिनेशं नौति यो नित्यं, श्रेयांसं बहुमानतः ॥१६॥ वाक्यं यस्तव सुश्राव, वासुपूज्य ! सनातनम् ।
भवे कुर्यात् तमोदाव-वाः सुपूज्य ! सनाऽतनम् ॥ १७ ॥ कस्य प्रमोदमन्यत्र, विमलात् परमात्मनः ।
हृदयं भजते देवाद्वि-मलात् परमात्मनः ॥१८॥ दृष्ट्वा त्वाऽनन्तजिद् ! भाव-पराजितमनो भवम् ।
भविनां नाथ ! नोऽभ्येत्य-पराजितमनो भवम् ॥११॥ श्रीधर्मेण क्षमाराम-प्रकृष्टतरवारिणा !
सनाथोऽस्मि कृच्छ्रवल्ली, प्रकृष्ट तरवारिणा ॥२०॥ त्वया द्वेधारिव! यत्, पदौ श्रीशाऽन्ति नाथते।।
शरणं तद्भवी ध्वस्ता-पदौ श्रीशान्तिनाथ ! ते ॥ २१ ॥ वीतरागं स्तुवे कुन्थु, जिनं शम्भु स्वयम्भुवम् ।
सरागत्वात् पुनर्नान्यं, जिनं शम्भु स्वयम्भुवम् ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org