________________
स्तुतितरङ्गिणी : सप्तमस्तरमा
- २ ( अनुष्टुप्वृत्तम् ) जिनं यशःप्रतापास्त-पुष्पदन्तं समं ततः ।
संस्तुवे यत्क्रमौ मोहं, पुष्पदन्तं समन्ततः। ॥१॥ प्रातस्तेऽङ्घिद्वयी येन, सरोजास्य ! समा नता।
त्वयाऽस्तु जिनधर्माब्ज-सरोऽजाऽस्य ! समानता ॥२॥ वन्दे देव ! च्युतोत्पत्ति-व्रतकेवलनिर्वृतिम् ।
विश्वार्चित ! च्युतोत्पत्ति-व्रतके बलनिर्वृतिम् ॥३॥ चतुरास्यं चतुःकायं, चतुर्द्धा वृषसेवितम् ।
प्रणमामि जिनाधीशं, चतुर्धावृषसेऽवितम् ॥४॥ जिनेन्द्रानञ्जनश्यामात्, कल्याणाब्जहिमप्रभान् । चतुर्विंशतिमानौम्य-कल्याणाब्जहिमप्रभान्
[इति मङ्गलश्लोकाः] विलोक्य विकचाम्भोज-काननं नाभिनन्दनम् ।
' द्रष्टुमुत्कायते कोऽपि, काननं नाभिनन्दनम् ॥६॥ भवानीश! सदा यस्या-जित ! निष्कोप ! नाथति ।
__ अहितो न हि तं स्वाभि-जितनिष्कोपनाथति ॥७॥ सनातनाय सेनाङ्ग-भव ! शं भव शम्भव !।
भगवन् ! भविकानाम-भव ! शम्भवशम्भवम् ॥८॥ दुष्कृतं मे मनोहंस-मानस ! स्याऽभिनन्दन !
श्रीसंवरधराधीश-मानसस्याभिनन्दन !। ॥९॥ अज्ञानतिमिरध्वंसे, सुमते ! सुमतेन ! ते।
क्रियते न नमः केन, सुमतेऽसुमतेन ते ॥१०॥ त्वां नमस्यन्ति येऽङ्क-स्थपद्म ! पद्मप्रभेश ! ते।
त्रैलोक्यस्य मनोहारि-पद्म! पद्मप्रभेशते ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org