________________
३९२
स्तुतितरङ्गिणी : सप्तमस्तरङ्गः पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-यमकबद्ध
स्तुतिचतुर्विंशतिका
१ ( मालिनीवृत्तम् ) जय वृषभजिनाऽभि-ष्ट्रयसे निम्ननाभि
जैडिमरविसनाभि-यः सुपर्वाङ्गनाभिः । तम इह किल नाभि-क्षोणिभृत्सूनुनाऽभि
द्रुतभुवनमनाभि, क्षान्तिसम्पत्कुनाभिः ॥ १ ॥ प्रकटितवृषरूप !, त्यक्तनिश्शेषरूप
प्रभृतिविषयरूप !, ज्ञातविश्वस्वरूप ! । जय चिरम-ऽसरूप !, पापपङ्काऽम्बुरूप !,
त्वमजित ! निजरूप-प्रास्तसज्जातरूप ! ॥२॥ जय मदगजवारिः, शम्भवान्तर्भवाऽरि
__ व्रजभिदिह तवाऽरि-श्रीन केनाप्यवारि । बदधिकृतभवाऽरि-संसन ! श्रीभवाऽरिः,
प्रशमशिखरिवारि, प्रोन्नमदानवारिः ॥३॥ अकृतशुभनिवारं, योऽत्र रागादिवारं,
सुविनतमघवाऽरं, संवरोद्भः सुवारम् । मदनदहनवारं, दोलिताऽन्तर्भवाऽऽरं,
नमत सपरिवारं, तं जिनं सर्ववारम् ॥४॥ १ सदृशः । २ हिंसितम् । * ' द्रागतिद्वाननाभिः' इत्यवचूर्याम् ३ क्षमाश्रीनिधिः। ४ सुवर्ण । ५ गजबन्धः । ६ धर्मचक्रधीः । ७ आविष्टलिङ्गत्वा 'अनतो लुबि (सि.है. १-४-५९)ति सिलोपः । ८ 'प्राणमदानवारिः' इत्यवचूर्याम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org