SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ १९० स्तुतितरङ्गिणी : सप्तमस्तर सुविधे ! कैर्वचो मार्ग, विभवस्तव नीयताम् । त्वय्येव मन्यते स्वर्ग-विभवः स्तवनीयताम् ॥१०॥ त्वयि निवृतिदानाय, शीतले ! सविभावसौ । सिक्तोऽस्मि सकलक्लेश-शीतलेशविभावसौ . ॥११॥ तं श्रेयांसं स्तुवे भक्त्या, कामं केवलिनामिनम् । यस्मादन्ये न गृह्णन्ति, कामं के बलिनामिनम् ॥ १२ ॥ वासुपूज्य ! विभो ! स्तौमि, भवन्तं सत्वराशयः । यत्प्रासादात् तरन्त्येव, भवं तं सत्वराशयः ॥ १३ ॥ यं स्मृत्वाऽपि लभन्ते स्म, देहिनः सुरसम्पदम् । ___ स त्वं विमल ! निर्दोषं, देहि नः सुरसं पदम् ॥ १४ ॥ अनन्तजित् ! तव श्रेयः, सुतरामापदश्चकः । त्वामीशं प्राप्य नावैति, सुतरामापदं च कः ! ॥ १५॥ केषां नाभूच्चमत्कारो, धर्मराज ! सतामसौ । विकारौ यत् त्वया ध्वस्तौ, धर्म ! राजसतामसौ ॥ १६ ।। शान्तं यन्नागमो दोष-विकलं कतमो नयः । तद्वचस्ते स किं स्तौति, विकलङ्कतमो न यः ॥ १७ ॥ तेजः कुन्थो ! भवोत्तार-करालम्ब ! तवारिभिः । कूर्चामेरिव न ध्वस्तं, करालं बत वारिभिः ॥१८॥ अर ! त्वदुपमानम्य, विभवोदधिरेकदा । जनः तीर्णोऽखिलकर्म-विभवो दधिरेकदा ॥१९॥ मल्लिदेव ! दयारूप-ममानं ते नवं धनम् । त्वया कर्माख्यमुच्छेद्य-ममानं तेन बन्धनम् ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy