SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका ३८७ अथ श्रीपार्श्वजिनस्तुतिः । १ ( इन्द्रवंशावृत्तम् ) योऽघान्यघानि म्मरता मनीषिणां, येन न्यघानि प्रचलारिमन्मथः । यस्योरुकीर्त्तिर्जगति प्रतिष्ठिता, पार्श्वप्रभुं तं प्रणमामि भावत: ॥१॥ ईशवजोऽपास्तसमस्तदूषणः, शास्ता जगत्या गुणरत्नभूषणः । सत्त्वानुकम्पादमदानसागरः, कुर्यात्सदा मङ्गलमङ्गिनां वरः ॥२॥ नेत्रं वरं सर्वपदार्थबोधने, ज्ञानं स्मृतं तीर्थपक्क्त्रनिःसृतम् । संसारपारङ्कर उत्तमः प्लवः, तन्मे विधत्तां विबुधैः स्तुतं सुखम् ॥३॥ पद्मावती काञ्चनकान्तिमञ्जुला, कर्कोटकाह्यासनगा मनोहरा । तीर्थेशपादाम्बुजरक्तमानसा, विघ्नप्रभेत्री जयताज्जयावहा ॥४॥ अथ श्रीवर्धमानजिनस्तुतीः । १ (स्रग्धरावृत्तम् ) श्रीमद्वीरं भजन्तां जिनमनुदिवसं ध्वस्तमोहान्धराकार, दातारं मोक्षलक्ष्म्या भवजलधितरिं भावतो भव्यजीवाः !। प्रोत्सर्पद्दष्टकर्माष्टकहरिगरुडं प्राप्तमुक्तिं भवन्तः, आनन्दस्यास्पदं तं गुणगणशरणं कौशिकैरञ्चितो यः ॥११॥ श्रीमत्तीर्थङ्कराणामिह जगति चतुर्विंशतिः पूर्णकामा, संसारापारवार्भयनिकरभृतो यानपात्रं पवित्रम् । मामासुरेन्द्रनतपदकमला भव्यचेतोऽब्जभानुः, भूयाद्भव्यात्मनां साकुशलहितकरी मोक्षसौख्यस्य दात्री ॥२॥ श्रेयस्कृत् प्राणभाजां तिमिरभरहरं सेवितं सत्तमैर्यत्, यस्मात्सत्त्वव्रजोऽगात् परमसुखचयं कर्मवृन्दं विजित्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy