________________
३८६
यदीया सत्पूजाऽगणितगुणराजेर्निदानं सुधीनां, यदीयं विज्ञानं हरति सुदृढं गाढकर्मान्धकारम् | ततिस्तीर्थेशानां सुरनरवरैः पूजिता शान्तभावैः,
त्रिदध्यात्साऽजस्त्रं व्यपगतमयं शाश्वतं मोक्षमार्गम् ॥ २ । जिनादित्योद्योतः शिवपुरलसत्पङ्कजश्रीप्रबोधः,
कुदृष्टिध्वान्तोषैस्तिमिरितजगद्बोधको वाक्प्रवाहः । ramraat भीमे प्रवहणनिभो मोक्षसम्प्रापकत्वात्,
स्तुतितरङ्गिणी : सप्तमस्तर
अशेषं कल्याणं वितरतु सदा नम्रभव्यात्मकेभ्यः ॥ ३॥ सदा सेव्या देवैः शशिवदवदाता रिपून्मूलकर्त्री,
जिनेशानां भक्ता शुचिगुणवहा लोकविश्वासपूज्या । चतुर्हस्ता शान्ता सरलहृदयानां भयव्रातहन्त्री,
सुभूषा गान्धारी हितततिमरं संनिधत्तां जगत्याम् ॥४॥
Jain Education International
अथ श्री नेमिजिनस्तुतिः । १ ( उपेन्द्रवज्रावृत्तम् )
व्रतापगासागरनेमिनाथो, घनाघघासज्वलनः कृपालुः । शुभङ्करः पुण्यवतां जनानां निहन्तु मे कर्मरिपून्नतस्य ॥ १ ॥ जिनेन्द्रवर्गः प्रथितोरुभर्गः कृतापवर्गः कृतबोधिसर्ग: । सुमार्गविश्राणनदत्तचित्तः, चिदेकवित्तो जयताज्जगत्याम् ॥ २ ॥ परागमाबाधितसङ्गतार्था, विकाशिताशेषपदार्थसार्था । रुचि श्रुतस्यार्हतवाक् सदैव, तनोतु शुद्धां शमिनां हृदीद्वाम् ||३|| मनोहरार्चिर्हरिवाहनाऽम्बा, रसालवृक्षाभिरतिं दधाना । जिनेशभक्तेषु हितं प्रदात्री, श्रुतान्तरायान् हरतात्समुत्थान् ॥ ४ ॥
"
,
For Private & Personal Use Only
www.jainelibrary.org