________________
आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका ३८३ भवाब्धेनिस्तारे प्रवहणनिभाः शान्तिनिलयाः,
. अनेकैर्देवेशैर्नतपदकजा धर्मशरणाः । स्फुरत्कान्तिवातैर्विजितमिहिरा ज्ञाननिधयो,
जिनाः सर्वे शुद्धस्फटिकमणिभूमिं प्रददतु ॥ २ ॥ महामोहध्वान्तव्रजविघटनादित्यसदृशं,
गुणैः पूर्ण नित्यं भवजलनिस्तारणपरम् । यतीनां सम्पत्तिं दददुपशमाख्यां सुविमलां,
अनन्तं विज्ञानं वितरतु सदा बुद्धिविभवम् ॥३॥ शुभा या निर्वाणी जिनपतिपदाभ्यर्चनरता,
___महाप्रत्यूहानां परिहरणदक्षाऽतिसुखदा । स्फुरत्कान्ताभूषा विमलवसनालङ्कततनू
रजस्रं सा भूयात् कनककमनीयाम्बुजकरा ॥४॥
अथ श्रीकुन्थुजिनस्तुतिः ।
१ ( मजुभाषिणीवृत्तम् ) . अयि ! शर्मणीश ! मयि प्रीयतां दयां,भवतापभीतिहर! कुन्थुनाथ! भो!। त्वदृते निजात्मज इवाशु कः परः, सुखमुत्तमं वितरितुं प्रभुर्भुवि ॥१॥ प्रथमानसुन्दरगुणव्रजा ! जिनाः !, मणिमालिकानिभगुणाः सुधोपमाः। भवतां भवार्त्तिभयभाजिनां भवेत् , शिवपूर्गमाय सरणिनिरर्गला ॥२॥ जिनपाननाम्बुजविनिर्गतं वचो, भविनां श्रवस्सुखकरं तमोहरम् । सुरनिम्नगास्मयविधूननं परं, भवतु क्षितौ मतिमतां शुभङ्करम् ॥३॥ कनकच्छविर्जिनपादाब्जमानसा, शिखिवाहना भयकरी दुरात्मनाम् । प्रभुपादपद्ममकरन्दपायिनां, शमदा बला भवतु विघ्नहारिणी ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org