________________
. आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका
३८१
अथ श्रीविमलजिनस्तुतिः ।
१ ( वंशस्थवृत्तम् ) सुरेशवन्धं विमलं जिनेश्वरं, कलाप्रधानं नतसौख्यदायिनम् । मुखाम्बुजापास्तशरत्कलानिधि, भजे भुजङ्गाभभवार्त्तिमुक्तये ॥१॥ नरामरैर्गीतपवित्रकीर्तयो, जिनेश्वरा भव्यहृदब्जसंश्रयाः । हितामृतोद्वर्षणतः शमङ्करा, जयन्तु लोकस्य सदा जयङ्कराः ॥२॥ समस्ततत्त्वप्रकरप्रभासकं, नयप्रमाणैः कुमतप्रणाशकम् ।। यतिव्रजोत्तारकरत्नदीपकं, नमामि नित्यं जिनराजभाषितम् ॥३॥ जिनेन्द्रचित्ता विजया कजासना, सदा रतोपासककार्यसाधने । शरासपाशाशुगनागहस्तका, जयत्वजस्रं भविविघ्नहारिणी ॥४॥
अथ श्रीअनन्तजिनस्तुतिः ।
१ ( पञ्चचामरवृत्तम् ) अनन्तनाथमीश्वरं जिनं जगत्प्रकाशकं,
निजाननेन्दुमण्डलान्निरस्तयामिनीपतिम् । प्रभाकराधिकप्रभं दयासरित्प्रवाहकं,
व्रतादिरत्नरोहणं स्तवीमि भक्तिभावतः ॥१॥ जिनव्रजस्तमोहरो हृतत्रितापसुन्दरो,
जनेष्टकल्पपादपः सुरार्चिताध्रिपङ्कजः । अनन्यवस्तुतत्त्वराजिबोधदः सुखाकरः,
सदा सुखं शिवार्थिनां ददातु दिव्यनायकः ॥ २ ॥ यतः कुदृष्टिसम्मतं क्षितौ हृतप्रभं श्रुतं,
स्मरादिभाववैरिणः क्रियामुखाच्च खण्डिताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org