________________
स्तुतितरङ्गिणी : सप्तमस्तरग
॥१॥
अथ श्रीमुविधिजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) जिनपतिसुविधिर्मे तेजसाऽपारदीप्रो,
कुविषयविनिपानान्नित्यनीचाध्वगानाम् । परमसुखनिदानं प्राणिनामूचिवान्यो,
हृदि स लसतु नित्यं पूतचारित्ररम्यः जिनपतिनिकरोऽसौ नाशिताशेषदोषः,
पदकमलविलुण्ठन्नम्रदेवेन्द्रमौलिः । महदुपकृतिकारी वस्तुतत्त्वप्रबोधात्,
जयतु जगति सारः साधिताशेषसारः वृजिनतिमिरनाशे पद्मिनीप्राणनाथो,
भवभयदवतापे पुष्करावर्तमेघः । कुमतिमतगजानामङ्कुशो ज्ञानमत्र,
प्रभवतु भविभावद्वेषितापापहन्तु रिपुसमरसुधीरा गौरवर्णा सुतारा,
सुविधिचरणरक्ता शासने दत्तचित्ता । बहुजनबहुमान्या खण्डिताशेषविघ्ना,
जगति जयतु नित्यं गेयसम्यक्त्वरम्या
॥२॥
॥३॥
॥४॥
अथ श्रीशीतलजिनस्तुतिः ।
१ ( हरिणीप्लुतावृत्तम् ) हृतभवदरं लोकाधारं भवात्त्यपनोदनात्,
भृशमसुमतां श्रेयःश्रेणीप्रदं भवतु पदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org