________________
पू. आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विशतिका ३७७ जिनानां श्रेणीयं भवभयहरा शान्तिनिलया,
सुरेन्द्रैः सम्पूज्योज्ज्वलतरयशोराजिरुचिरा । दयाधारावर्षिण्यनुपमशमाध्धप्रकटिनी,
क्रियाश्रद्धामिद्धां वितरतु जिहासोभवभयम् ॥ २॥ तृतीयं यन्नेत्रं सकलनयभावप्रकटने,
जिनेर्गीतं जीवाभयमयशमप्राप्तिनिलयम् । विशुद्धं चारित्रं सहकृतिवशाद्यस्य शुशुभे,
सदा तद्विज्ञानं जयतु भविचेतोऽब्जतरणिः ॥३॥ गजारूढा शान्ता कनकनिभगौरा भयहरा,
चतुर्हस्ता ध्वस्ताखिलखलजना शासनवरा । सुपान्तिात्री भविकशिशुधात्री शशिमुखी,
सदा पायादक्षाभयवरदशूलाञ्चितकरा ॥४॥
अथ श्रीचन्द्रप्रभजिनस्तुतिः ।
१ ( आख्यानकीवृत्तम् ) । चन्द्रप्रभोऽमर्त्यनरप्रणम्यो, निरस्तकन्दर्पमदो विमायः । भृशं जनानां तनुतेऽभयं यो, जयत्वजस्रं स जिनो जगत्याम् ॥१॥ बोधिप्रदश्रेणिरहीनभद्रा, सुनिर्मलज्ञानसरित्पतिर्या । सुनिर्जिता शेषरिपुप्रभावा, समेधतां साऽखिलधीगरिष्ठा ॥२॥ मिथ्यातमःखण्डनभास्कराभं, समुन्नतानन्दविधानदक्षम् । भवाब्धिसन्तारणयानपात्रं, ददातु सौख्यं वचनं जिनानाम् ॥३॥ ज्वाला समुद्दीप्रसुवर्णजाला, वरालकाकल्पितवाहना या ।। जिनेन्द्रपादाम्बुजभूरिभक्ता, तनोतु सा शासनगौरवं द्राक् ॥४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org