________________
पू. आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका
३७३
जैनरत्न व्या. वा. पू. आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता
स्तुतिचतुर्विंशतिका अथ श्रीआदिजिनस्तुतिः ।
१ ( शार्दूलविक्रीडितवृत्तम् ) सम्यक्त्वाब्जविकासभास्कर ! विभो ! कर्मद्रुमोन्मूलने, मत्तभोरुपराक्रम ! द्युतिनिधे ! नाभेय ! मुक्तिप्रद !। संसारानलदह्यमानजनतातापापहे वारिद !, त्वन्नामस्मरणेन मङ्गलमहान्यूँत्नान् सदाऽऽवाप्नुमः ॥१॥ ते नो दारनारतं जिनवराः सत्संवरं निर्जराम् , मुक्तिं चात्मशमप्रदां जनिमृतिप्रध्वंसिकी शाश्वतीम् । ये साध्यैकपरायणाः परहिता लोकैकपूज्यप्रभाः, लोकाग्रैकपदस्थिता अपि जगद्व्याप्ता भवोत्तारकाः ॥२॥ ज्ञानं नेत्रमनुत्तमं नरभवे प्राप्नोति यत्पूर्णताम् , मिथ्यादिक्षयजातदर्शनयुताच्चारित्रसंसर्गतः । नूनं तजिनशासने मतिमतां पुण्योदयात्प्राणिनाम् , लोकालोकसमस्तवस्तुविषयं प्रोज्दृम्भते सिद्धिदम् श्रीनाभेयपदाब्जसेवनपरा चक्रेश्वरी देवता, विख्याता जिनशासने भयहराऽधिष्ठायिकाऽऽनन्ददा । चञ्चद्दिब्यविभाप्रकाशकतनूश्चकं वहन्ती करे, दैत्यव्रातबलप्रभञ्जनचणा जीयाज्जगत्यां सदा
॥४॥
१ महोत्सवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org