________________
-
३७२
स्तुतितरङ्गिणी : सप्तमस्त। कनकरजतरत्नसालत्रये देशनां तन्वतो ध्वस्तसंसार !
तीर्थेशवार ! गुसद्धोरणीनत ! वर ! विभयासमानस्य रुच्याङ्गहारा हिते पारिजातस्य
भास्वन्महेलास्यभारोचिते ॥२॥ वचनमुचितमर्हतः संश्रय श्रेयसे प्रीणयद् भव्य ! भीमे दधद्
ध्वस्ततापं भवाम्भोनिधौ, परमतरणहेतुलाभं गुरावाऽऽर्यमानन्दिताऽपायशो भावतो
भासमानस्य माराजितम् । दलितजगदसद्ग्रहं हेतुदृष्टान्तनियिष्टसन्देहसन्दोहमद्रोह !
निर्मोह ! निःशेषितापरमतरण ! हेऽतुलाभङ्गुरावार्यमानं दितापाय ! शोभावतो
भासमानस्य माराजितम् ॥३॥ अहमहमिकया समाराद्धमुत्कण्ठितायाः क्षणे वाङ्मय
स्वामिनी शक्तिमह्नाय दद्यात्तरां, सकलकलशता रमाराजिता पापहाने कलाभा स्थिताs
सद्विपक्षेऽमरालेरवार्यागमम् । दधतमिह सतां दिशन्ती सदैङ्कारविस्फारसारस्वत
___ ध्यानदृष्टा स्वयं मङ्गलं तन्वती, सकलकलशतारमाराजितापापहाऽनेकलाभास्थिता
सद्विपक्षे मराले स्वार्यागमम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org