________________
३७४
स्तुतितरङ्गिणी : सप्तमस्तरङ्गः
अथ श्रीअजितजिनस्तुतिः ।
. १ ( द्रुतविलम्बितवृत्तम् ) अजितनाथ ! तवाङ्घ्रिसरोरुहं, विविधशक्तिमरन्दकरम्बितम् । नरसुरासुरकिन्नरसेवितं, मम मनोऽलिरहर्निशमिच्छति ॥१॥ जिनवरा जगतामघनाशना, मम हृदि प्रतिवासितशासनाः । सकलतत्त्वविकासनविश्रुता, ददतु शाश्वतसौख्यमहोदयम् ॥२॥ विमलकारकबुद्धिमहोदयं, विनतभावुकवृन्दमहोदयम् । यतिवरैर्हतरोषमुखैस्सदा, हृदि विभावितमस्त्वभयाय नः ॥३॥ जिनपदाब्जरता सुभगाऽजिता, भुवनभीतिगणोपशमे हिता। अरिजनैरजिता जनवन्दिता, जयतु तीर्थपशासनदेवता ॥ ४ ॥
अथ श्रीशम्भवजिनस्तुतिः ।
१ ( उपजातिवृत्तम् ) भवाम्बुराशिबुडितान जनान् यो, ररक्ष सत्त्वप्रतिपालदक्षः खगेशचिह्नाङ्कितसक्थिदेशं, तं शम्भवं तीर्थपतिं नमामि ॥१॥ विध्वस्तरागादिगणा महान्तो, दयासरिजन्मनिदानभूताः । समस्तजीवार्चितपादपद्माः, पुनन्तु सार्वज्ञमहर्द्धयो नः ॥२॥ प्रभोवचोऽनन्ततमःप्रहारि, सत्तत्त्वरत्नप्रतिभासदक्षम् । गतिभ्रमिक्लान्तजनावलम्ब, जीयाजगच्छान्तिसुधाप्रवर्षि ॥३॥ आज्ञारता श्रीदुरितारिदेवी, हन्त्री प्रभोश्शासनविघ्नकर्तृन् ।। देवादिभिः सेवितपादपद्मा, जयं विदध्याजिनशासनस्य ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org