________________
३७०
स्तुतितरङ्गिणी : सप्तमस्तय
॥२॥
योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद्धामानेकपराजितासु विभया सन्नाभिरामोदिताः या गङ्गेव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्याऽऽगमसङ्गता नयतताऽमायाचिता साऽधुना। अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभीभारत्यागमऽसङ्गता न यततामाऽऽयाचिता साधुना व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालंपादपरतां वाचालयन्ती हितम् ।। दध्यानित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहितं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम्
॥३॥
॥४॥
अथ श्रीपार्श्वजिनस्तुतिः।
१ ( नग्धरावृत्तम् ) सौधे सौधे रसे स्वै रुचिररुचिरया हारिलेखारिलेखा, पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाऽथ । पाच पार्श्व तमोद्रौ तमऽहतमहमऽक्षोभजालं भजाऽलं, कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् ॥१॥ तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिभीमालीकालीकालकूटाऽकलितकलितयोल्लासमूहे समूहे। या मायामानही भवविभवविदां दत्तविश्वासविश्वानाप्तानाप्ताभिशङ्का विमदविमदनत्रासमोहाऽसमोहा ॥२॥ गौरागौरातिकीर्तेः परमपरमतहासविश्वासविश्वाssदेया देयान्मुदं मे जनितजनितनूभावतारावतारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org