________________
न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विशतिका
३६९ दधद् भासांचक्रं रविकरसमूहादिव महा
विभावर्योऽनाशङ्कमऽनलसमानं दितमदः ॥१॥ भवोद्भूतं भिन्द्याद् भुवि भवभृतां भव्यमहिता,
जिनानामाऽऽयासं चरणमुदिताऽऽली करचितम् । शरण्यानां पुण्या त्रिभुवनहितानामुपचिताऽऽ
जिनानामायासंचरणमुदितालीकरचितम् ॥२॥ जिनानां सिद्धान्तश्चरणपटु कुर्यान्मम मनोऽ
पराभूतिर्लोके शमहितपदानामऽविरतम् । यतः स्याञ्चक्रित्वत्रिदशविभुताद्या भवभृतां,
परा भूतिर्लोकेशमहितपदानामविरतम् ॥३॥ गजव्यालव्याघ्रानलजलसमिद्वन्धनरुजोऽ
गदाक्षाऽऽलीकालीनयमवति विश्वासमहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद्
गदाक्षाली काली नयमऽवति विश्वाऽसमहिता ॥४॥
अथ श्रीनेमिजिनस्तुतिः ।
१ ( शार्दूलविक्रीडितवृत्तम् ) त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेऽकान्तमहामना विलसतां राजीमतीरागतः । कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामऽनाविल ! सतां राजीमतीरागतः ॥१॥ जीयासुर्जिनपुङ्गवा जयति ते राज्यर्द्धिषु प्रोल्लसद्धामानेकपराजितासु विभयासन्नाभिरामोदिताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org