________________
स्तुतितरङ्गिणी : सप्तमस्तक
अथ श्रीमुनिसुव्रतजिनस्तुतिः ।
१ ( नर्दटकवृत्तम् ) तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभा
वनघन ! रोहितं नमति मानितमोहरणम् । नतसुरमौलिरत्नविभया विनयेन विभ
वनघ ! नरो हितं न मतिमानितमोहरणम् ॥१॥ अवति जगन्ति याऽऽशु भवती मयि पारगता
वलि ! तरसेहितानि सुरवा रसभाजि तया । दिशतु गिरा निरस्तमदना रमणीहसिता
वलितरसे ! हितानि सुरवारसभाजितया ॥२॥ यतिभिरधीतमाहतमतं नयवज्रहताऽ
घनगमऽभङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदऽपास्तभवं रहितं,
- घनगमभङ्गमाऽऽनम रणैरनु योगभृतम् ॥३॥ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशो
हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसितेन मुदं ददती,
हृदि ततमाऽऽमहाऽऽशु भविनो दिवि मानवताम् ॥४॥
अथ श्रीनमिजिनस्तुतिः ।
१ (शिखरिणीवृत्तम् ) यतो यान्ति क्षिप्रं नमिरघवने नाऽत्र तनुते,
विभावों नाशं कमऽनलसमाऽऽनन्दितमऽदः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org