________________
न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका
३६७ भक्तिनताखिलसुरमौलिस्थितरत्नरुचाऽरुणक्रम,
स्मरत रणाधिकारमुदितापदमुद्यमविरतमुत्करम् ॥२॥ भीमभवोदधेर्भुवनमेव यतो विधुशुभ्रमञ्जसाS
भवदऽवतो यशोऽभितरणेन न मादितं नयमितं हि तम् । जिनपसमयमनन्तभङ्ग जन ! दर्शनशुद्धचेतसा,
भवदवतोय ! शोभित ! रणेन नमादितं न यमितं हितम् ॥३॥ चक्रधरा करालपरघातबलिष्ठमधिष्ठिता प्रभा
सुरविनतातनुभवपृष्ठमनुदितापदरं गतारवाक् । दलयतु दुष्कृतं जिनवरागमभक्तिभृतामनारतं,
सुरविनता तनुभवपृष्ठमनु दितापदरङ्गतारवाक् ॥४॥
अथ श्रीमल्लिजिनस्तुतिः ।
१ ( रुचिरावृत्तम् ) महोदयं प्रवितनु मल्लिनाथ ! मेऽ-घनाघ! नोदितपरमोहमान! सः। अभूमहाव्रतधनकाननेषु यो, घनाघनोऽदितपरमोहमानसः ॥१॥ मुनीश्वरैः स्मृत ! कुरु सौख्यमहतां, सदा नतामर! समुदाय ! शोभितः। घनैर्गुणैर्जगति विशेषयन् श्रिया, सदानतामरस ! मुदा यशोऽभितः॥२॥ जिनः स्म यं पठितमनेकयोगिभि-Hदारसं गतमपरागमाऽऽह तम् । सदागमं शिवसुखदं स्तुवेतरा-मुदारसङ्गतमऽपरागमाहतम् ॥ ३॥ तनोतु गीः समयरुचिं सतामनाविला सभा गवि कृतधीरतापदा । शुचिद्युति: पटुरणदच्छकच्छपी, विलासभागऽविकृतधीरतापदा॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org