SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका ३६५ अथ श्रीशान्तिजिनस्तुतिः । __ १ ( शार्दूलविक्रीडितवृत्तम् ) अस्याभूद् व्रतधाति नातिरुचिरं यच्छ्रेयसे सेवना दक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः । लिप्सो ! शान्तिजिनस्य शासनरुचिं सौरव्यं जयद् ब्रह्म भोः !, दक्षोऽदम्भरतस्य वैभवमयं साराजितं तन्वऽतः ॥१॥ येषां चेतसि निर्मले शमवतां मोक्षाध्वनो दीपिका, प्रज्ञालाभवतां क्रिया सुरुचिताऽरं भावनाभोगतः । ते श्रीमज्जिनपुङ्गवा हतभया नित्यं विरक्ताः सुखं, प्रज्ञाला भवतां क्रियासुरुचितारम्भावना भोगतः ॥२॥ मिथ्यादृष्टिमतं यतो ध्रुवमभूत् प्रध्वस्तदोषात् क्षिता वाचारोचितमानमारयमदम्भावारिताऽपाप ! हे !। तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धाय चित्ते निजे, __वाचा रोचित ! मानमारयमदं भावारितापापहे ॥३॥ शत्रूणां घनधैर्यनिर्जितभया त्वां शासनस्वामिनी, पातादानतमानवासुरहिता रुच्या सुमुद्राजिषु । श्रीशान्तिक्रमयुग्मसेवनरता नित्यं हतव्यग्रता पातादानतमा नवासु रहिताऽरुच्या सुमुद्राऽऽजिषु ॥४॥ अथ श्रीकुन्थुजिनस्तुतिः १ ( मालिनीवृत्तम् ) स जयति जिनकुन्थुर्लोभसंक्षोभहीनो, महति सुरमणीनां वैभवे सन्निधाने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy