________________
३६४
स्तुतितरङ्गिणी : सप्तमस्तरङ्गा
अथ श्रीअनन्तजिनस्तुतिः ।
१ ( द्रुतविलम्बितवृत्तम् ) कलितमोदमऽनन्तरसाश्रये, शिवपदे स्थितमऽस्तभवापदम् । त्रिदशपूज्यमनन्तजितं जिनं, कलितमोदमनं तरसाऽऽश्रये ॥१॥ जिनवरा गततापदरोचितां, प्रददतां पदवीं मम शाश्वतीम् । दुरितहृद्वचना न कदाचनाऽऽ-जिनवरागततापदरोचिताम् ॥२॥ सुरसमानसदक्षरहस्य ! ते, मधुरिमाऽऽगम ! सोऽस्तु शिवाय नः । जगति येन सुधाऽपि घनप्रभा-सुरसमानसदक्षर ! हस्यते ॥३॥ सदसिरऽक्षति भासुरवाजिनं, जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता, सदसिरक्षतिभा सुरवा जिनम् ॥४॥
अथ श्रीधर्मजिनस्तुतिः ।
१ ( अनुष्टुप्वृत्तम् ) श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! ।
स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥१॥ गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या ।
. श्रिया जीयाजिनाली सा, भासमानाऽततानया ॥२॥ वचः पापहरं दत्त-सातं केवलिनोदितम् ।
भवे त्राणाय गहने, सातङ्केऽबलिनोदितम् ॥३॥ दद्युः प्रसादाः प्रज्ञप्त्याः, शक्तिमऽत्या जितादराः ।
तस्या यया द्विषां सर्वे, शक्तिमत्या जिता दराः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org