________________
-
-
न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका ३६३ श्रद्धाभाजां प्रसादं सुमतिकुमुदिनीचन्द्रकान्ते ! प्रपूर्णाऽऽशं कान्ते ! देहिनव्येऽरितरणकुशले ! सुश्रु! वादे विशिष्टम् ॥ ४ ॥
अथ श्रीविमलजिनस्तुतिः ।
१ ( पृथ्वीवृत्तम् ) नमो हतरणायतेऽसमदमाय ! पुण्याशया,
सभाजित ! विभासुरैर्विमलविश्वमारक्षते !। न मोहतरणाय ते समदमाय ! पुण्याशया
सभाजितविभासुरैर्विमलविश्वमारक्षते ! ॥१॥ महाय तरसाहिताऽजगति बोधिदानामहो !,
दया भवतुदां तताऽसकलहाऽसमानाऽऽभया। महायतरसाहिता जगति वोऽधिदाना महो
___ दया भवतु दान्ततासकलहासमानाऽभया ॥२॥ क्रियादऽरमऽनन्तरागततयाचितं वैभवं,
मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादरमऽनन्तरागततयाचितं वैभवं,
मतं समुदितं सदाशमऽवता भवेऽनोदितम् ॥३॥ प्रभा वितरतादऽरं सुरभियाऽतता रोहिणी
हिताशुगुरु चाऽपराजितकराशमारोचिता । प्रभावितरतादरं सुरभियाततारोहिणी,
हिताऽऽशु गुरुचापराजितकरा शमाऽऽरोचिता ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org