________________
३६२
स्तुतितरङ्गिणी : सप्तमस्तरा जन ! तव मनो यायाच्छायामयः समयो गल
नवरतमलो भावस्थामाश्रयं नयशोभितः ॥३॥ सुकृतपटुतां विघ्नोच्छित्त्या तवारिहतिक्षमाs
पविफलकरा |त्यागेहाऽऽघनाघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत् ,
पविफलकरा शुत्यागेहा घनाघनराजिता ॥४॥
अथ श्रीवासुपूज्यजिनस्तुतिः ।
१ ( स्रग्धरावृत्तम् ) पद्मोल्लासे पटुत्वं दधदधिकरुचिर्वासुपूज्याऽर्कतुल्यो, लोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाऽव । लुम्पन् स्वैर्गोविलासै गति घनतमो दुर्नयध्वस्ततत्त्वालोकं सद्धीर ! पाता शमरुचिरपवित्रास ! हारिप्रभाव ! ॥१॥ लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिमें, हृद्या राजी वनेऽत्राऽभवतुदऽमरसार्थानताऽपातमोहा । साक्षात् किं कल्पवल्लिर्विबुधपरिगता क्रोधमानार्त्तिमायाहृद्या राजीवनेत्रा भवतु दमरसाऑनतापा तमोहा ॥२॥ उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपानाssस्वादे शस्तादराऽतिक्षतशुचि सदनेकान्त ! सिद्धान्तरागः । रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्ग-. स्वादेश ! स्तादऽरातिक्षतशुचिसदने कान्तसिद्धान्त ! रागः ॥३॥ वाग्देवि ! प्रीणयन्ती पटुविविधनयोनीतशास्त्रार्थनिष्ठाशङ्कान्ते ! देहि नव्येरितरणकुशले ! सुध्रुवा देवि ! शिष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org