________________
न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका
अथ श्रीशीतलजिनस्तुतिः।
१ ( द्रुतविलम्बितवृत्तम् ) जयति शीतलतीर्थपतिर्जने, वसु मती तरणाय महोदधौ। ददति यत्र भवे चरणग्रहे, वसुमतीतरणाय महो दधौ ॥१॥ वितर शासनभक्तिमतां जिना-बलि ! तमोहरणे ! सुरसम्पदम् । अधरयच्छिवनाम महात्मनां, वलितमोहरणे ! सुरसं पदम् ॥ २॥ भगवतोऽभ्युदितं विनमाऽऽगमं, जन ! यतः परमापदमाऽऽदरात् । इह निहत्य शिवं जगदुन्नति, जनयतः परमाऽऽप दमादरात् ॥ ३ ॥ स्तवरवैत्रिदशैस्तव सन्ततं, न परमऽच्छविमानविलासिता । न घनशस्त्रकलाऽप्यरिदारिणी, न परमच्छवि ! मानवि! लासिता॥४॥
अथ श्रीश्रेयांसजिनस्तुतिः ।
१ ( हरिणीवृत्तम् ) जिनवर ! भजन श्रेयांस ! स्यां व्रताम्बुहृतोदय
द्भवदव ! नतोऽहं तापातंङ्कमुक्त ! महागम !। गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लस
द्भवदवनतोः हन्ताऽपातं कमुक्तमहागम ! ॥१॥ जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां,
भवमऽदरदं रुच्या कान्तं महामितमोहरम् । विनयमधिकं कारं कारं कुलादिविशिष्टता
भवमदरदं रुच्याऽकान्तं महामि तमोहरम् ॥२॥ शुचिगमपदो भङ्गैः पूर्णो हरन् कुमतापहोऽ
. नवरतमऽलोभावस्थामाऽऽश्रयन्नऽयशोऽभितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org