________________
था. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विशतिका
३५७
-
॥२॥
भगवतां जननस्य जयनिहाऽऽ
शु भवतां तनुतां परमुत्करः । त्रिजगतीदुरितोपशमे पटुः,
शुभवतां तनुतां परमुत्करः त्रिदिवमिच्छति यश्चतुरः स्फुरत् ,
सुरसमूहमऽयं मतमऽहताम् । स्मरतु चारु ददत् परमुच्चकैः,
सुरसमूहमयं मतमऽर्हताम् धृतसकाण्डधनुद्यतु तेजसा,
न रहिता सदया रुचिराजिता। मदहितानि परैरिह रोहिणी,
नरहिता सदया रुचिराऽजिता
अथ श्रीसुमतिजिनस्तुतिः ।
१ ( आर्यांगीतिवृत्तम् ) नम नमदमरसदमरस-सुमतिं सुमति सदसदरमुदारमुदा। जनिताजनितापदपद-विभवं विभवं नर ! नरकान्तं कान्तम् ॥१॥ भवभवभयदाऽभयदा-वली बलीयोदयोदयाऽमायामा । दद्यादऽद्याऽमितमित-शमा शमादिष्टदिष्टबीजाऽबीजा ॥२॥ दमदमऽसुगमं सुगमं, सदा सदानन्दनं दयाविद्याविद् । परमऽपरमऽस्मर ! स्मर, महामहा धीरधी रसमयं समयम् ॥३॥ काली कालीरऽसरस भावाभावाय नयनसुखदाऽसुखदा । महिमहितनुता तनुता-दितादितामानमानरुच्या रुच्या ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org