________________
३५८
स्तुतितरङ्गिणी : सप्तमस्तर अथ श्रीपद्मप्रभजिनस्तुतिः ।
१. ( वसन्ततिलकावृत्तम् ) पद्मप्रभेश ! तव यस्य रुचिर्मते सद्
विश्वासमानसदयापर ! भावि तस्य । नोच्चैः पदं किमु पचेलिमपुण्यसम्पद्,
विश्वासमान ! सदयाऽपर ! भावितस्य ॥१॥ मूर्तिः शमस्य दधती किमु या पटूनि,
. पुण्यानि काचन सभासु रराज नव्या । सा स्तूयतां भगवतां विततिः स्वभक्त्या,
पुण्याऽनिकाचन ! सभा सुरराजनव्या ॥२॥ लिप्सुः पदं परिगतैर्विनयेन जैनी,
___ वाचं यमैः सततमञ्चतु रोचिताम् । स्याद्वादमुद्रितकुतीर्थ्यनयावतारां,
वाचंयमैः सततमं चतुरोचितार्थाम् ॥ ३॥ साहाय्यमत्र तनुषे शिवसाधने याऽ
पाता मुदा रसमयस्य निरन्तराये !। गान्धारि ! वज्रमुशले जगतीं तवाऽस्याः,
पातामुदारसमयस्य निरन्तराये ! ॥ ४॥
अथ श्रीसुपार्श्वजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) यदिह जिन ! सुपार्श्व ! त्वं निरस्ताकृतक्ष्मा
वनमद ! सुरवाऽधा हृद्यशोभाऽवतारम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org